2026-01-21 14:24:22 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa">भ्रा<ref>१</ref>न्तैः सुतैः परिवृतस्तरुणैः सदारैः
वृद्धो द्विजो निशिचरानुचरः स<ref>२</ref> एषः ।
व्याघ्रानु<ref>३</ref>सारचकितो वृषभः सधेनुः
सन्त्रस्तवत्सक इवाकुलतामुपैति ॥ ३ ॥</verse>

<stage>(निष्क्रान्ताः । )</stage>

<trailer lang="sa">स्थापना ।</trailer>

<stage>(ततः प्रविशति तत्रयकलत्रपरिवृतो ब्राह्मणः पृष्ठतो घटोत्कचश्च । )</stage>

<speaker>ब्राह्मणः-</speaker>भोः कोनु खल्वेषः ।

<verse lang="sa">तरुणरविकरप्रकीर्णकेशो भ्रुकुटिपुटोज्ज्वलपिङ्गलायताक्षः ।
सतडिदिव घनः सकण्ठसूत्रो युगनिधने प्रतिमाकृतिर्हरस्य ॥४॥</verse>

<speaker>प्रथमः-</speaker> भोस्तात ! कोनु खल्वेषः ।

<pverse lang="sa">ग्रहयुगलनिभाक्षः पीनविस्तीर्णवक्षाः
कनककपिलकेशः पीतकौशेयवासाः ।
तिमिरनिवहवर्ण: पाण्डरोद्वृत्तदंष्ट्रो
नव इव जलगर्भो लीयमानेन्दुलेखः ॥ ५ ॥</pverse>

<speaker>द्वितीय:-</speaker> क एष भोः !

<verse lang="sa">कलभदशनदंष्ट्रो लाङ्गलाकारनासः
करिवरकरबाहुर्नीलजीमूतवर्णः ।
हुतहुतवहदीप्तो यः स्थितो भाति भीम-
स्त्रिपुरपुरनिहन्तुः शङ्करस्येव रोषः ॥ ६ ॥</verse>

<speaker>तृतीयः - </speaker>भोरतात ! कोनुखल्वयमस्मान्पीडयति ।

<footnote mark="१" lang="sa">श्रान्तैः।</footnote>
<footnote mark="२">सरोषः ।</footnote>
<footnote mark="३">व्याघ्रानुचारचकितो, व्याघ्रानुसारचरितो ।</footnote>
</page>
<verse lang="sa">भ्रा<ref>१</ref>न्तैः सुतैः परिवृतस्तरुणैः सदारैः
वृद्धो द्विजो निशिचरानुचरः स<ref>२</ref> एषः ।
व्याघ्रानु<ref>३</ref>सारचकितो वृषभः सधेनुः
सन्त्रस्तवत्सक इवाकुलतामुपैति ॥ ३ ॥</verse>

<stage>(निष्क्रान्ताः । )</stage>

<trailer lang="sa">स्थापना ।</trailer>

<stage>(ततः प्रविशति तत्रयकलत्रपरिवृतो ब्राह्मणः पृष्ठतो घटोत्कचश्च । )</stage>

<speaker>ब्राह्मणः-</speaker>भोः कोनु खल्वेषः ।

<verse lang="sa">तरुणरविकरप्रकीर्णकेशो भ्रुकुटिपुटोज्ज्वलपिङ्गलायताक्षः ।
सतडिदिव घनः सकण्ठसूत्रो युगनिधने प्रतिमाकृतिर्हरस्य ॥४॥</verse>

<speaker>प्रथमः-</speaker> भोस्तात ! कोनु खल्वेषः ।

कनककपिलकेशः पीतकौशेयवासाः ।
तिमिरनिवहवर्ण: पाण्डरोद्वृत्तदंष्ट्रो
नव इव जलगर्भो लीयमानेन्दुलेखः ॥ ५ ॥</