This page has not been fully proofread.

४२२
 
मध्यमव्यायोगे
 
[ i. 3.―
 
भ्रान्तैः सुतैः परिवृतस्तरुणैः सदारैः
वृद्धो द्विजो निशिचरानुचरः से एषः ।
व्याघ्रानुसारच कितो वृषभः सधेनुः
 
सन्त्रस्तवत्सक इवाकुलतामुपैति ॥ ३ ॥
(निष्क्रान्ताः । )
 
स्थापना ।
 
३ (ततः प्रविशति तत्रयकलत्रपरिवृतो ब्राह्मणः पृष्ठतो घटोत्कचश्च । )
ब्राह्मणः-भोः कोनु खल्वेपः ।
 
तरुणरविकर प्रकीर्णकेशो भ्रुकुटिपुटोज्ज्वलपिङ्गलायताक्षः ।
सतडिदिव घनः सकण्ठसूत्रो युगनिधने प्रतिमाकृतिर्हरस्य ॥४॥
प्रथमः- भोस्तात ! कोनु खल्वेपः ।
 
ग्रहयुगलनिभाक्षः पीनविस्तीर्णवक्षाः
कनककपिलकेशः पीतकौशेयवासाः ।
तिमिरनिवहवर्ण: पाण्डरोवृत्तष्ट्रो
 
नव इव जलगर्भो लीयमानेन्दुलेखः ॥ ५ ॥
 
:- क एष भोः !
 
द्वितीय:-
 
कलभदशनदंष्ट्रो लाङ्गलाकारनासः
करिवरकरबाहुर्नीलजीमूतवर्णः ।
 
ततो यः स्थितो भाति भीम-
 
स्त्रिपुरपुर निहन्तुः शङ्करस्येव रोषः ॥ ६ ॥
 
तृतीयः - भोरतात ! कोनुखल्वयमस्मान्पीडयति ।
 
१. श्रान्तैः। २. सरोषः । ३. व्याघ्रानुचारचकितो, व्याघ्रानुसारचरितो ।