This page has been fully proofread once and needs a second look.

ii. 70.* ]

द्वितीयोऽङ्कः ।

४०९

<page>

<speaker>
राजा-

</speaker>

<verse>
शूराणां सत्यसन्धानां प्रतिज्ञां परिरक्षताम् ।

पाण्डवानां निवासेन कुलं मे नष्टकल्मषम् ॥ ६६ ॥
</verse>

<speaker>
अभिमन्युः -</speaker> इहात्रभवन्तो मे पितरः । तेन खलु,

<verse>
न रुष्यन्ति मया क्षिप्ता हसन्तश्च क्षिपन्ति माम् ।

दिष्टथाट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः ॥ ६७ ॥
</verse>

<stage>
(भीमसेनमुद्दिश्य)</stage> भोस्तात !

<verse>
अज्ञानात्तु मया पूर्वं यद् भवान् नाभिवादितः ।

तस्य पुत्रापराधस्य प्रसादं कर्तुमर्हसि ॥ ६८ ।

</verse>

<speaker>
भीमसेन: -</speaker> एह्येहि पुत्र ! पितृसदृशपराक्रमो भव । पुत्र ! अभि-

वादयस्व पितरम् ।

<speaker>
अभिमन्युः -</speaker> भोम्तात ! अभिवादये ।

<speaker>
अर्जुन :-</speaker> एह्येहि पुत्र !

<verse>
अयं स हृदयह्लादी पुत्रगात्रसमागमः ।

यत्तद् द्वादशवर्षान्ते प्रोषितः पुनरागतः ॥ ६९ ॥

</verse>

पुत्र ! अभिवाद्यतां विराटेश्वरः ।

<speaker>
अभिमन्युः -</speaker> अभिवादये ।

<speaker>
राजा- -</speaker> एह्येहि वत्स !

<verse>
यौधिष्ठिरं धैर्यमवाप्नुहि त्वं भैमं बलं नैपुणमर्जुनस्य ।

माद्रीसुतात् कान्तिमथाभिरूप्यं कीर्तितिं च कृष्णस्य जगत्प्रियस्य ॥७०॥
</verse>

<stage>
( आत्मगतम् )</stage> उत्तरासन्निकर्षस्तु मां बाधते । किमिदानीं करिष्ये ।

भवतु दृष्टम् । कोऽत्र ।

<stage>( प्रविश्य )</stage>

<speaker>
भटः-</speaker> जयतु महाराजः ।

पञ्च. २३

( प्रविश्य )

<ignore>
३७

</ignore>
</page>