2025-12-29 10:00:47 by ambuda-bot
This page has not been fully proofread.
ii. 70.* ]
द्वितीयोऽङ्कः ।
४०९
६ राजा-
शूराणां सत्यसन्धानां प्रतिज्ञां परिरक्षताम् ।
पाण्डवानां निवासेन कुलं मे नष्टकल्मषम् ॥ ६६ ॥
अभिमन्युः - इहात्रभवन्तो मे पितरः । तेन खलु,
न रुष्यन्ति मया क्षिप्ता हसन्तश्च क्षिपन्ति माम् ।
दिष्टथा गोग्रहणं स्वन्तं पितरो येन दर्शिताः ॥ ६७ ॥
(भीमसेनमुद्दिश्य) भोस्तात !
अज्ञानात्तु मया पूर्वं यद् भवान् नाभिवादितः ।
तस्य पुत्रापराधस्य प्रसादं कर्तुमर्हसि ॥ ६८ ।
भीमसेन: - एह्येहि पुत्र ! पितृसदृशपराक्रमो भव । पुत्र ! अभि-
वादयस्व पितरम् ।
३ अभिमन्युः - भोम्तात ! अभिवादये ।
अर्जुन :- एह्येहि पुत्र !
अयं स हृदयह्लादी पुत्रगात्रसमागमः ।
यत्तद् द्वादशवर्षात प्रोषितः पुनरागतः ॥ ६९ ॥
पुत्र ! अभिवाद्यतां विराटेश्वरः ।
अभिमन्युः - अभिवादये ।
३ राजा- - एह्येहि वत्स !
यौधिष्ठिरं धैर्यमवाप्नुहि त्वं भैमं बलं नैपुणमर्जुनस्य ।
माद्रीसुतात् कान्तिमथाभिरूप्यं कीर्ति च कृष्णस्य जगत्प्रियस्य ॥७०॥
( आत्मगतम् ) उत्तरासन्निकर्षस्तु मां बाधते । किमिदानीं करिष्ये ।
भवतु दृष्टम् । कोऽत्र ।
भटः- जयतु महाराजः ।
३
पञ्च. २३
( प्रविश्य )
३७