This page has been fully proofread once and needs a second look.

४०८

पचरात्रे

[ ii. 60.

<page>

<speaker>
उत्तरः-</speaker> इहात्रभवते धनञ्जयाय ।

<speaker>
राजा -</speaker> कथं धनञ्जयायेति ।

<speaker>उत्त
रः --</speaker> अथकिम् । अत्रभवता,

उत्तरः-

<verse>
श्मशानाद्धनुरादाय तूणी चाक्षयसायके ।

नृपा भीष्मादयो भग्ना वयं च परिरक्षिताः ॥ ६१ ॥
</verse>

<speaker>
बृहन्नला -</speaker> प्रसीदतु प्रसीदतु महाराजः ।

<verse>
अयं बाल्यात्तु सम्भ्रान्तो न वेत्ति प्रहरन्नपि ।

कृत्स्नं कर्म स्वयं कृत्वा परस्येत्यवगच्छति ॥ ६२ ॥
</verse>

<speaker>
उत्तर:-</speaker> व्यपनयतु भवाञ्छङ्काम् । इदमाख्यास्यते,

<verse>
प्रकोष्ठान्तरसङ्गढं गाण्डीवज्याहतं किणम् ।

यत्तद् द्वादशवर्षान्ते नैव याति सवर्णताम् ॥ ६३ ॥

</verse>

<speaker>
बृहन्नला-

</speaker>

<verse>
एतन्मे पारिहार्याणां व्यावर्तनकृतं किणम् ।

सन्निरोधविवर्णत्वाद् गोधास्थानमिहागतम् ॥ ६४ ॥

</verse>

<speaker>
राजा -</speaker> पश्यामस्तावत् ।

<speaker>
बृहन्नला-

</speaker>

<verse>
रुद्रबाणावलीढाङ्गो यद्यहं भारतोऽर्जुनः ।

अव्यक्तं भीमसेनोऽयमयं राजा युधिष्ठिरः ॥ ६५ ॥

</verse>

<speaker>
राजा -</speaker> भो धर्मराज ! वृकोदर ! धनञ्जय ! कथं न मां विश्वसिथ ।

भवतु भवतु प्राप्तकाले । बृहन्नले ! प्रविश त्वमभ्यन्तरम् ।

<speaker>
बृहन्नला -</speaker> यदाज्ञापयति महाराजः ।

<speaker>
भगवान् -</speaker> अर्जुन ! नखलु नखल प्रवेष्टत्र्व्यम् । तीर्णप्रतिज्ञा वयम् ।

<speaker>
अर्जुन : - </speaker>यदाज्ञापयत्यार्यः ।

<ignore>
३६

</ignore>
</page>