2025-12-29 10:00:47 by ambuda-bot
This page has not been fully proofread.
४०८
पचरात्रे
[ ii. 60.
उत्तरः- इहात्रभवते धनञ्जयाय ।
९ राजा - कथं धनञ्जयायेति ।
रः - अथकिम् । अत्रभवता,
उत्तरः-
श्मशानाद्धनुरादाय तूणी चाक्षयसायके ।
नृपा भीष्मादयो भग्ना वयं च परिरक्षिताः ॥ ६१ ॥
बृहन्नला - प्रसीदतु प्रसीदतु महाराजः ।
अयं बाल्यात्तु सम्भ्रान्तो न वेत्ति प्रहरन्नपि ।
कृत्स्नं कर्म स्वयं कृत्वा परस्येत्यवगच्छति ॥ ६२ ॥
उत्तर:- व्यपनयतु भवाञ्छङ्काम् । इदमाख्यास्यते,
प्रकोष्ठान्तरसङ्गढं गाण्डीवज्याहतं किणम् ।
यत्तद् द्वादशवर्षान्ते नैव याति सवर्णताम् ॥ ६३ ॥
बृहन्नला-
एतन्मे पारिहार्याणां व्यावर्तनकृतं किणम् ।
सन्निरोधविवर्णत्वाद् गोधास्थानमिहागतम् ॥ ६४ ॥
राजा - पश्यामस्तावत् ।
बृहन्नला-
रुद्रबाणावलीढाङ्गो यद्यहं भारतोऽर्जुनः ।
अव्यक्तं भीमसेनोऽयमयं राजा युधिष्ठिरः ॥ ६५ ॥
राजा - भो धर्मराज ! वृकोदर ! धनञ्जय ! कथं न मां विश्वसिथ ।
भवतु भवतु प्राप्तकाले । बृहन्नले ! प्रविश त्वमभ्यन्तरम् ।
३ बृहन्नला - यदाज्ञापयति महाराजः ।
भगवान् - अर्जुन ! नखलु नखल प्रवेष्टत्र्यम् । तीर्णप्रतिज्ञा वयम् ।
अर्जुन : - यदाज्ञापयत्यार्यः ।
३६