This page has been fully proofread once and needs a second look.

ii. 60.7 ]

द्वितीयोऽङ्कः ।

<page>

<speaker>
भगवान् -</speaker> पुत्र ! कोऽयं मध्यमो नाम ।

४०७

<speaker>
अभिमन्युः-</speaker> श्रूयताम् । नन्वनुत्तरा वयं ब्राह्मणेषु, साध्वन्यो

ब्रूयात् ।

<speaker>
राजा -</speaker> भवतु भवतु । मद्वचनात् पुत्र ! कोऽयं मध्यमो नाम ।

<speaker>
अभिमन्युः -</speaker> श्रूयताम् । येन,

राजा-

<verse>
तुलयित्वा जरासन्धं कण्ठश्लिष्टेन बाहुना ।

असह्यकर्म तत् कृत्वा नीतः कृष्णोऽतदर्हताम् ॥ ५७ ॥

</verse>
<verse>
न ते क्षेपेण रुष्यामि रुष्यता भवता रमे ।

किमुक्त्वा नापराद्धोऽहं कथं तिष्ठति यात्विति ॥ ५८ ॥

</verse>

<speaker>
अभिमन्युः-</speaker> यद्यहमनुग्राह्यः,

<verse>
पादयोः समुदाचारः क्रियतां निग्रहोचितः ।

बाहुभ्यामाहृतं भीमो बाहुभ्यामेव नेष्यति ॥ ५९ ॥
</verse>

<stage>
( ततः प्रविशत्युत्तरः । )

</stage>

<speaker>
उत्तरः-

</speaker>

<verse>
मिध्थ्याप्रशंसा खलु नाम कष्टा येषां तु मिथ्यावचनेषु भक्तिः ।

अहं हि युद्धाश्रयमुच्यमानो वाचानुवर्ती हृदयेन लज्जे ॥ ६० ॥
</verse>

<stage>
( उपसृत्य )</stage> भगवन् ! अभिवादये ।

<speaker>
भगवान् -</speaker>स्वस्ति ।

<speaker>
उत्तरः-</speaker> तात ! अभिवादये ।

<speaker>
राजा -</speaker> एह्येहि पुत्र ! आयुष्मान् भव । पुत्र ! पूजिताः कृतकर्माणो

योधपुरुषाः ।

<speaker>उत्तर
:-</speaker> पूजिताः । पूज्यतमस्य क्रियतां पूजा ।

६ उत्तर:-

<speaker>
राजा -</speaker> पुत्र ! कस्मै ।

३५

</page>