2025-12-29 10:00:47 by ambuda-bot
This page has not been fully proofread.
ii. 60.7 ]
द्वितीयोऽङ्कः ।
भगवान् - पुत्र ! कोऽयं मध्यमो नाम ।
४०७
अभिमन्युः श्रूयताम् । नन्वनुत्तरा वयं ब्राह्मणेषु, साध्वन्यो
३ ब्रूयात् ।
राजा - भवतु भवतु । मद्वचनात् पुत्र ! कोऽयं मध्यमो नाम ।
अभिमन्युः - श्रूयताम् । येन,
राजा-
तुलयित्वा जरासन्धं कण्ठलिष्टेन बाहुना ।
असह्यकर्म तत् कृत्वा नीतः कृष्णोऽतदर्हताम् ॥ ५७ ॥
न ते क्षेपेण रुष्यामि रुष्यता भवता रमे ।
किमुक्त्वा नापराद्धोऽहं कथं तिष्ठति यात्विति ॥ ५८ ॥
अभिमन्युः- यद्यहमनुग्राह्यः,
पादयोः समुदाचारः क्रियतां निग्रहोचितः ।
बाहुभ्यामाहृतं भीमो बाहुभ्यामेव नेष्यति ॥ ५९ ॥
( ततः प्रविशत्युत्तरः । )
उत्तरः-
मिध्याप्रशंसा खलु नाम कष्टा येषां तु मिथ्यावचनेषु भक्तिः ।
अहं हि युद्धाश्रयमुच्यमानो वाचानुवर्ती हृदयेन लज्जे ॥ ६० ॥
( उपसृत्य ) भगवन् ! अभिवादये ।
भगवान् -स्वस्ति ।
३ उत्तरः- तात ! अभिवादये ।
राजा - एह्येहि पुत्र ! आयुष्मान् भव । पुत्र ! पूजिताः कृतकर्माणो
योधपुरुषाः ।
:- पूजिताः । पूज्यतमस्य क्रियतां पूजा ।
६ उत्तर:-
राजा - पुत्र ! कस्मै ।
३५