This page has been fully proofread once and needs a second look.

<page>
<ignore>
४०६

</ignore>

<speaker>
भीमसेनः-

पचरात्रे

[ ii. 52.——

</speaker>

<verse>
धन्यः खल्वर्जुनो येन प्रत्यक्षमुभयं श्रुतम् ।

पुत्रस्य च पितुः श्लाघ्यं सङ्क्ग्रामेषु पराक्रमः ॥ ५३ ॥
</verse>

<speaker>
राजा-</speaker>त्वर्यतां त्वर्यतामभिमन्युः ।

<speaker>
बृहन्नला–</speaker>इत इतः कुमारः । एष महाराजः । उपसर्पतु कुमारः ।

<speaker>
अभिमन्युः-

</speaker> आः कस्य महाराजः ।

<speaker>
बृहन्नला-</speaker>न न । ब्राह्मणेन सहास्ते ।

<speaker>
अभिमन्युः-</speaker>ब्राह्मणेनेति । भगवन् ! अभिवादये ।

<speaker>
भगवान् -</speaker> एह्येहि वत्स !

<verse>
शौण्डीर्यं धृतिविनयं दयां स्वपक्षे

माधुर्यं धनुषि जयं पराक्रमं च ।

एकस्मिन् पितरि गुणानवाप्नुहि त्वं

शेषाणां यदपि च रोचते चतुर्णाम् ॥ ५४ ॥

</verse>

<speaker>
राजा -</speaker> एह्येहि पुत्र ! कथं न मामभिवादयसि । अहो उत्सिक्तः

ल्वयं क्षत्रियकुमारः । अहमस्य दर्पप्रशमनं करोमि । अथ केनायं

गृहीतः ।

<speaker>
भीमसेनः -</speaker> महाराज ! मया ।

<speaker>
अभिमन्युः -</speaker> अशस्त्रेणेत्यभिधीयताम् ।

<speaker>
भीमसेनः -</speaker> शान्तं शान्तं पापम् ।

<verse>
सहजौ मे प्रहरणं भुजौ पीनांस कोमलौ ।

तावाश्रित्य प्रयुध्येयं दुर्बलैर्गृह्यते धनुः ॥ ५५ ॥
</verse>

<speaker>
अभिमन्युः -</speaker> मा तावद् भोः !

<verse>
बाहुरक्षौहिणी यस्य निर्व्याजो यस्य विक्रमः ।

किं भवान् मध्यमस्तातस्तस्यैतत् सदृशं वचः ॥ ५६ ॥

३४

</verse>
</page>