2025-12-29 10:00:47 by ambuda-bot
This page has not been fully proofread.
४०६
भीमसेनः-
पचरात्रे
[ ii. 52.——
धन्यः खल्वर्जुनो येन प्रत्यक्षमुभयं श्रुतम् ।
पुत्रस्य च पितुः श्लाघ्यं सङ्क्रामेषु पराक्रमः ॥ ५३ ॥
राजा-त्वर्यतां त्वर्यतामभिमन्युः ।
बृहन्नला–इत इतः कुमारः । एष महाराजः । उपसर्पतु कुमारः ।
३ अभिमन्युः-
: -आः कस्य महाराजः ।
बृहन्नला-न न । ब्राह्मणेन सहास्ते ।
अभिमन्युः-ब्राह्मणेनेति । भगवन् ! अभिवादये ।
६ भगवान् - एह्येहि वत्स !
शौण्डीर्यं धृतिविनयं दयां स्वपक्षे
माधुर्यं धनुषि जयं पराक्रमं च ।
एकस्मिन् पितरि गुणानवाप्नुहि त्वं
शेषाणां यदपि च रोचते चतुर्णाम् ॥ ५४ ॥
राजा - एह्येहि पुत्र ! कथं न मामभिवादयसि । अहो उत्सिक्तः
खवयं क्षत्रियकुमारः । अहमस्य दर्पप्रशमनं करोमि । अथ केनायं
३ गृहीतः ।
भीमसेनः - महाराज ! मया ।
अभिमन्युः - अशस्त्रेणेत्यभिधीयताम् ।
६ भीमसेनः - शान्तं शान्तं पापम् ।
सहज मे प्रहरणं भुजौ पीनांस कोमलौ ।
तावाश्रित्य प्रयुध्येयं दुर्बलैर्गृह्यते धनुः ॥ ५५ ॥
अभिमन्युः - मा तावद् भोः !
बाहुरक्षौहिणी यस्य निर्व्याजो यस्य विक्रमः ।
किं भवान् मध्यमस्तातस्तस्यैतत् सदृशं वचः ॥ ५६ ॥
३४