This page has not been fully proofread.

४०६
 
भीमसेनः-
 
पचरात्रे
 
[ ii. 52.——
 
धन्यः खल्वर्जुनो येन प्रत्यक्षमुभयं श्रुतम् ।
 
पुत्रस्य च पितुः श्लाघ्यं सङ्क्रामेषु पराक्रमः ॥ ५३ ॥
राजा-त्वर्यतां त्वर्यतामभिमन्युः ।
 
बृहन्नला–इत इतः कुमारः । एष महाराजः । उपसर्पतु कुमारः ।
 
३ अभिमन्युः-
 
: -आः कस्य महाराजः ।
 
बृहन्नला-न न । ब्राह्मणेन सहास्ते ।
 
अभिमन्युः-ब्राह्मणेनेति । भगवन् ! अभिवादये ।
 
६ भगवान् - एह्येहि वत्स !
 
शौण्डीर्यं धृतिविनयं दयां स्वपक्षे
 
माधुर्यं धनुषि जयं पराक्रमं च ।
 
एकस्मिन् पितरि गुणानवाप्नुहि त्वं
 
शेषाणां यदपि च रोचते चतुर्णाम् ॥ ५४ ॥
 
राजा - एह्येहि पुत्र ! कथं न मामभिवादयसि । अहो उत्सिक्तः
खवयं क्षत्रियकुमारः । अहमस्य दर्पप्रशमनं करोमि । अथ केनायं
३ गृहीतः ।
 
भीमसेनः - महाराज ! मया ।
 
अभिमन्युः - अशस्त्रेणेत्यभिधीयताम् ।
 
६ भीमसेनः - शान्तं शान्तं पापम् ।
 
सहज मे प्रहरणं भुजौ पीनांस कोमलौ ।
तावाश्रित्य प्रयुध्येयं दुर्बलैर्गृह्यते धनुः ॥ ५५ ॥
अभिमन्युः - मा तावद् भोः !
 
बाहुरक्षौहिणी यस्य निर्व्याजो यस्य विक्रमः ।
 
किं भवान् मध्यमस्तातस्तस्यैतत् सदृशं वचः ॥ ५६ ॥
 
३४