This page has been fully proofread once and needs a second look.

<page>
<ignore>
-ii. 28.1]

द्वितीयोऽङ्कः ।

</ignore>
<verse>
युध्यते यदि सौभद्रस्तेजोग्निर्वंशयोर्द्वयोः ।

सारथिः प्रेष्यतामन्यो विक्लवात्र बृहन्नला ॥ २५ ॥
</verse>

<speaker>
राजा -</speaker> मा मा भवानेवम् ।

<verse>
भीष्मं रामशरैरभिन्नकवचं द्रोणं च मन्त्रायुधं

३९९

कृत्वा कर्णजयद्रथौ च विमुखौ शेषांश्च तांस्तान् नृपान् ।

सौभद्रं स्वशरैर्न धर्षयति किं भीतः पितुः प्रत्ययात्

संसृष्टोऽपि वयस्यभावसदृशं तुल्यं वयो रक्षति ॥ २६ ॥

</verse>

<speaker>
भटः-</speaker> एष खलु कुमारस्य रथः,

<verse>
आलम्बितो भ्रमति धावति तेन मुक्तो

न प्राप्य धर्षयति नेच्छति विप्रकर्तुम्

आसन्नभूमिचपलः परिवर्तमानो

योग्योपदेशमिव तस्य रथः करोति ॥ २७ ॥

</verse>

<speaker>
राजा -</speaker> गच्छ । भूयो ज्ञायतां वृत्तान्तः ।

<speaker>
भटः-</speaker> यदाज्ञापयति महाराजः । <stage>(निष्क्रम्य प्रविश्य)</stage> जयतु महा-

राजः । जयतु विराटेश्वरः । प्रियं निवेदये महाराजाय । अवजितं

गोग्रहणम् । अपयाता धार्तराष्ट्राः ।

<speaker>
भगवान्-</speaker> दिष्ट्या भवान् वर्धते ।

<speaker>
राजा -</speaker> न न । भगवतो वृद्धिरेषा । अथ कुमार इदानीं क ।
क्व ।

<speaker>
भटः–</speaker>दृष्टपरिस्पन्दानां योधपुरुषाणां कर्माणि पुस्तकमारोपयति

कुमारः ।

<speaker>
राजा -</speaker> अहो श्लाघनीयव्यापारः खल्वयं कुमारः ।

<verse>
ताडितस्य हि योधस्य श्लाघनीयेन कर्मणा ।

कालान्तरिता पूजा नाशयत्येव वेदनाम् ॥ २८ ॥

</verse>

अथ बृहन्नलेदानीं

क्व ।

<ignore>
२७

</ignore>
</page>