This page has not been fully proofread.

-ii. 28.1]
 
द्वितीयोऽङ्कः ।
 
युध्यते यदि सौभद्रस्तेजोग्निर्वंशयोर्द्वयोः ।
 
सारथिः प्रेष्यतामन्यो विक्लवात्र बृहन्नला ॥ २५ ॥
राजा - मा मा भवानेवम् ।
 
भीष्मं रामशरैरभिन्नकवचं द्रोणं च मन्त्रायुधं
 
३९९
 
कृत्वा कर्णजयद्रथौ च विमुखौ शेषांश्च तांस्तान नृपान् ।
सौभद्रं स्वशरैर्न धर्षयति किं भीतः पितुः प्रत्ययात्
संसृष्टोऽपि वयस्यभावसदृशं तुल्यं वयो रक्षति ॥ २६ ॥
 
भटः- एष खलु कुमारस्य रथः,
 
आलम्बितो भ्रमति धावति तेन मुक्तो
 
न प्राप्य धर्षयति नेच्छति विप्रकर्तुम्
 
आसन्नभूमिचपलः परिवर्तमानो
 
योग्योपदेशमिव तस्य रथः करोति ॥ २७ ॥
 
राजा - गच्छ । भूयो ज्ञायतां वृत्तान्तः ।
 
भटः- यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य) जयतु महा-
३ राजः । जयतु विराटेश्वरः । प्रियं निवेदये महाराजाय । अवजितं
गोग्रहणम् । अपयाता धार्तराष्ट्राः ।
 
भगवान् दिष्ट्या भवान् वर्धते ।
 
६ राजा - न न । भगवतो वृद्धिरेषा । अथ कुमार इदानीं क ।
भटः–दृष्टपरिस्पन्दानां योधपुरुषाणां कर्माणि पुस्तकमारोपयति
 
कुमारः ।
 
९ राजा - अहो श्लाघनीयव्यापारः खल्वयं कुमारः ।
 
ताडितस्य हि योधस्य लाघनीयेन कर्मणा ।
 
कालान्तरिता पूजा नाशयत्येव वेदनाम् ॥ २८ ॥
 
अथ बृहन्नलेदानीं ।
 
२७