This page has been fully proofread once and needs a second look.

<page>
<ignore>
३९८

पचरात्रे

</ignore>

<speaker>
भट: - </speaker>यदाज्ञापयति महाराजः । <stage>(निष्क्रान्तः । )

</stage>

<speaker>
राजा-

[ii. 20.4

</speaker>

<verse>
को नु खल्वेष सहसा कम्पयन्निव मेदिनीम् ।

नदीस्रोत इवाविद्धः क्षणात् संवर्तते ध्वनिः ॥ २१ ॥

</verse>

ज्ञायतां शब्दः ।

<stage>
( प्रविश्य )

</stage>

<speaker>
भटः-</speaker> जयतु महाराजः । श्मशानान्मुहूर्तविश्रान्ततुरगेण कुमारेण तु-

<speaker>
भगवान्-</speaker>एष मामनृतवादिनं न कुर्यात् ।

<speaker>
भटः-

१.

</speaker>

<verse>
कृता नीला नागाः शरशतनिपातेन कपिला

यो वा योधो वा न वहति न कश्चिच्छरशतम् ।

शरैः स्तम्भीभूताः शरपरिकराः स्यन्दनवराः

शरैश्छन्ना मार्गाः स्रवति धनुरूग्रां शरनदीम् ॥ २२ ॥

</verse>

<speaker>
भगवान् - </speaker> <stage>( आत्मगतम् )

</stage>

<verse>
एतदक्षयतूणीत्वं येन शक्रस्य खाण्डवे ।

यावत्यः पतिता धारास्तावन्तः प्रेषिताः शराः ॥ २३ ॥

</verse>

<speaker>
राजा -</speaker> अथ परेष्विदानीं को वृत्तान्तः ।

<speaker>
भटः -</speaker> अप्रत्यक्षं हि तत्र मे । प्रवृत्तिपुरुषाः कथयन्ति -

<verse>
धनुर्घोषं द्रोणस्तदिदमिति बुद्धाddhvA प्रतिगतः

ध्वजे'<ref>१</ref> बाणं दृष्ट्वा कृतमिति न भीष्मः प्रहरति ।

शरैर्भमःग्नः कर्णः किमिदमिति चान्ये नृपतयो

भयेऽप्येको बाल्यान्न भयमभिमन्युर्गणयति ॥ २४ ॥

</verse>

<speaker>
भगवान् -</speaker> कथमभिमन्युः प्राप्तः । भो राजन् !

<footnote>१.
स्वजे ।

६६

</footnote>
</page>