This page has not been fully proofread.

३९८
 
पचरात्रे
 
भट: - यदाज्ञापयति महाराजः । (निष्क्रान्तः । )
 
राजा-
 
[ii. 20.4
 
को नु खल्वेष सहसा कम्पयन्निव मेदिनीम् ।
नदीस्रोत इवाविद्धः क्षणात् संवर्तते ध्वनिः ॥ २१ ॥
 
ज्ञायतां शब्दः ।
 
( प्रविश्य )
 
३ भटः- जयतु महाराजः । श्मशानान्मुहूर्तविश्रान्ततुरगेण कुमारेण तु-
भगवान्-एष मामनृतवादिनं न कुर्यात् ।
 
भटः-
 
१.
 
कृता नीला नागाः शरशतनिपातेन कपिला
 
यो वा योधो वा न वहति न कश्चिच्छरशतम् ।
शरैः स्तम्भीभूताः शरपरिकराः स्यन्दनवराः
 
शरैश्छन्ना मार्गाः स्रवति धनुरूग्रां शरनदीम् ॥ २२ ॥
 
भगवान् - ( आत्मगतम् )
 
एतदक्षयतूणीत्वं येन शक्रस्य खाण्डवे ।
 
यावत्यः पतिता धारास्तावन्तः प्रेषिताः शराः ॥ २३ ॥
 
राजा - अथ परेष्विदानीं को वृत्तान्तः ।
 
भटः - अप्रत्यक्षं हि तत्र मे । प्रवृत्तिपुरुषाः कथयन्ति -
 
धनुर्घोषं द्रोणस्तदिदमिति बुद्धा प्रतिगतः
 
ध्वजे' बाणं दृष्ट्वा कृतमिति न भीष्मः प्रहरति ।
शरैर्भमः कर्णः किमिदमिति चान्ये नृपतयो
भयेऽप्येको बाल्यान्न भयमभिमन्युर्गणयति ॥ २४ ॥
 
भगवान् - कथमभिमन्युः प्राप्तः । भो राजन् !
 
स्वजे ।
 
६६