2025-12-29 10:00:45 by ambuda-bot
This page has not been fully proofread.
३९८
पचरात्रे
भट: - यदाज्ञापयति महाराजः । (निष्क्रान्तः । )
राजा-
[ii. 20.4
को नु खल्वेष सहसा कम्पयन्निव मेदिनीम् ।
नदीस्रोत इवाविद्धः क्षणात् संवर्तते ध्वनिः ॥ २१ ॥
ज्ञायतां शब्दः ।
( प्रविश्य )
३ भटः- जयतु महाराजः । श्मशानान्मुहूर्तविश्रान्ततुरगेण कुमारेण तु-
भगवान्-एष मामनृतवादिनं न कुर्यात् ।
भटः-
१.
कृता नीला नागाः शरशतनिपातेन कपिला
यो वा योधो वा न वहति न कश्चिच्छरशतम् ।
शरैः स्तम्भीभूताः शरपरिकराः स्यन्दनवराः
शरैश्छन्ना मार्गाः स्रवति धनुरूग्रां शरनदीम् ॥ २२ ॥
भगवान् - ( आत्मगतम् )
एतदक्षयतूणीत्वं येन शक्रस्य खाण्डवे ।
यावत्यः पतिता धारास्तावन्तः प्रेषिताः शराः ॥ २३ ॥
राजा - अथ परेष्विदानीं को वृत्तान्तः ।
भटः - अप्रत्यक्षं हि तत्र मे । प्रवृत्तिपुरुषाः कथयन्ति -
धनुर्घोषं द्रोणस्तदिदमिति बुद्धा प्रतिगतः
ध्वजे' बाणं दृष्ट्वा कृतमिति न भीष्मः प्रहरति ।
शरैर्भमः कर्णः किमिदमिति चान्ये नृपतयो
भयेऽप्येको बाल्यान्न भयमभिमन्युर्गणयति ॥ २४ ॥
भगवान् - कथमभिमन्युः प्राप्तः । भो राजन् !
स्वजे ।
६६