2026-01-29 08:00:44 by akprasad
This page has been fully proofread once and needs a second look.
३
द्वितीयोऽङ्कः ।
३९७
<p><speaker>सूतः-</speaker>प्रसीदत्वायुष्मान् । रथं कल्पयित्वा तु सूतसमुदाचारेणो-
पस्थितः खल्वहम् । कुमारेण,
<verse>किन्नु तत्परिहासार्थं किन्नु तत्रास्ति कौशलम् ।
मामतिक्रम्य सारथ्ये विनियुक्ता बृहन्नला ॥ १७ ॥
<p><speaker>भगवान् -</speaker> राजन् ! अलमलं सम्भ्रमेण ।
<verse>यदि स्वचक्रोद्धत
रथं समास्थाय गता बृहन्नला ।
परा
विनापि बाणान् रथ एव जेष्यति ॥ १८ ॥
<p><speaker>राजा -</speaker> तेन हि शीघ्रमन्यो रथः कल्प्यताम् ।
<p><speaker>सूतः -</speaker> यदाज्ञापयत्यायुष्मान् । <stage>(निष्क्रान्तः । )
<p><stage>( प्रविश्य )
<p><speaker>भटः -</speaker> भग्नः खलु कुमारस्य रथः ।
<p><speaker>राजा -</speaker> कथं भग्नो नाम ।
६
<p><speaker>भटः-
: -
<verse>बहुभिः समराभिज्ञैराच्छिन्नोऽश्वपथः परैः ।
भग्नो वाहनलोभेन श्मशानाभिमुखो रथः ॥ १९ ॥
<p><speaker>भगवान् –( आत्मगतम्)</speaker> आः अत्र खलु गाण्डीवम् । <stage>( प्रकाशम् )
भो राजन् !
<verse>निमित्तं किञ्चिदुत्पन्नं श्मशानाभिमुखे रथे ।
धार्तराष्ट्राः स्थिता यत्र श्मशानं तद् भविष्यति ॥ २० ॥
<p><speaker>राजा-</speaker>भगवन् ! अकाले स्वस्थवाक्यं मन्युमुत्पादयति ।
<p><speaker>भगवान् -</speaker> अलं मन्युना । कदाचिदनृर्
३
<p><speaker>राजा -</speaker> आ अस्त्येतत् । गच्छ भूयो ज्ञायतां वृत्तान्तः ।
<footnote>१. गहनलोभेन ।
२५
</page>