This page has not been fully proofread.

—ii. 20.3 ]
 

 
द्वितीयोऽङ्कः ।
 
३९७
 
सूतः-प्रसीदत्वायुष्मान् । रथं कल्पयित्वा तु सूतसमुदाचारेणो-
पस्थितः खल्वहम् । कुमारेण,
 
किन्नु तत्परिहासार्थं किन्नु तत्रास्ति कौशलम् ।
मामतिक्रम्य सारथ्ये विनियुक्ता बृहन्नला ॥ १७ ॥
भगवान् - राजन् ! अलमलं सम्भ्रमेण ।
 
यदि स्वचक्रोद्धत रेणुदुर्दिनं
 
रथं समास्थाय गता बृहन्नला ।
परान क्षणैर्नेमिरवैर्निवारयन
 
विनापि बाणान् रथ एव जेष्यति ॥ १८ ॥
 
राजा - तेन हि शीघ्रमन्यो रथः कल्प्यताम् ।
 
सूतः - यदाज्ञापयत्यायुष्मान् । (निष्क्रान्तः । )
 
( प्रविश्य )
 
भटः - भग्नः खलु कुमारस्य रथः ।
 
राजा - कथं भग्नो नाम ।
 
६ भटः-
 
: - श्रोतुमर्हति महाराजः ।
 
बहुभिः समराभिज्ञैराच्छिन्नोऽश्वपथः परैः ।
 
भग्नो वाहनलोभेन श्मशानाभिमुखो रथः ॥ १९ ॥
 
भगवान् –( आत्मगतम्) आः अत्र खलु गाण्डीवम् । ( प्रकाशम् )
भो राजन् !
 
निमित्तं किञ्चिदुत्पन्नं श्मशानाभिमुखे रथे ।
 
धार्तराष्ट्राः स्थिता यत्र श्मशानं तद् भविष्यति ॥ २० ॥
राजा-भगवन् ! अकाले स्वस्थवाक्यं मन्युमुत्पादयति ।
भगवान् - अलं मन्युना । कदाचिदनृर्त नोक्तपूर्वम् ।
३ राजा - आ अस्त्येतत् । गच्छ भूयो ज्ञायतां वृत्तान्तः ।
 
१. गहनलोभेन ।
 
२५