2026-01-29 07:56:53 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३९६
पचरात्रे
</ignore>
<ignore>[ii. 12.5-
</ignore>

<speaker>विराटः -</speaker> सूतस्तावदाहूयताम्
६

<speaker>भटः -</speaker> यदाज्ञापयति महाराजः । <stage>(निष्क्रान्तः । )
</stage>

<stage>( प्रविश्य )</stage>

<speaker>सूतः -</speaker> जयत्वायुष्मान् ।
३

<speaker>विराट:-
( प्रविश्य )
</speaker>

<verse>रथमानय शीघ्रं मे श्लाघ्यः प्राप्तो रणातिथिः ।
तोषयिष्ये शरैर्भीष्मं जेष्यामीत्यमनोरथः ॥ १३॥
</verse>

<speaker>सूतः -</speaker> यदाज्ञापयत्यायुष्मान् । आयुष्मन् !

<verse>रिपूणां सैन्यभेदेषु यस्ते परिचितो रथः ।
रथचर्यां बहिष्कर्तुं तमास्थायोत्तरो गतः ॥ १४ ॥
</verse>

<speaker>विराटः -</speaker> कथं निर्यातः कुमारः ।

<speaker>भगवान् - </speaker>भो राजन् ! संवार्यतां संवार्यतां कुमारः ।

<verse>अगणितगुणदोषो युद्ध तीक्ष्णश्च बाल्या-
न्न च दहति न कश्चित् सन्निकृष्टो रणाग्निः ।
अथच परिहरन्ते धार्तराष्ट्रा न किवि-
ञ्चि-
न्न खलु परिभवान्त् ते युद्धदोषान् ब्रवीमि ॥ १५ ॥
</verse>

<speaker>राजा -</speaker> तेन हि शीघ्रमन्यो रथः कल्प्यताम् ।

<speaker>सूतः -</speaker> यदाज्ञापयत्यायुष्मान् ।
६

<speaker>राजा -</speaker> अथवा एहि तावत् ।

<speaker>सूतः -</speaker> आयुष्मन् ! अयमस्मि ।

<speaker>राजा-
</speaker>

<verse>त्वमिदानीं कुमारस्य किं न वाहितवान् रथम् ।
अनुज्ञातोऽसि किं तेन न राज्ञां सारथिर्भवान् ॥ १६ ॥
२४
</verse>
</page>
<ignore>३९६
पचरात्रे
<ignore>[ii. 12.5-

<speaker>विराटः -</speaker> सूतस्तावदाहूयताम्
६

<speaker>भटः -</speaker> यदाज्ञापयति महाराजः । <stage>(निष्क्रान्तः । )

<stage>( प्रविश्य )</stage>

<speaker>सूतः -</speaker> जयत्वायुष्मान् ।
३

<speaker>विराट:-
( प्रविश्य )
<verse>रथमानय शीघ्रं मे श्लाघ्यः प्राप्तो रणातिथिः ।
तोषयिष्ये शरैर्भीष्मं जेष्यामीत्यमनोरथः ॥ १३॥

<speaker>सूतः -</speaker> यदाज्ञापयत्यायुष्मान् । आयुष्मन् !
<verse>रिपूणां सैन्यभेदेषु यस्ते परिचितो रथः ।
रथचर्यां बहिष्कर्तुं तमास्थायोत्तरो गतः ॥ १४ ॥

<speaker>विराटः -</speaker> कथं निर्यातः कुमारः ।

<speaker>भगवान्
<verse>अगणितगुणदोषो युद्ध
न्न च दहति न कश्चित् सन्निकृष्टो रणाग्निः ।
अथच परिहरन्ते धार्तराष्ट्रा न कि
न्न खलु परिभवा