This page has not been fully proofread.

३९६
 
पचरात्रे
 
[ii. 12.5-
 
विराटः - सूतस्तावदाहूयताम्
 
६ भटः - यदाज्ञापयति महाराजः । (निष्क्रान्तः । )
 
सूतः - जयत्वायुष्मान् ।
 
३ विराट:-
 
( प्रविश्य )
 
रथमानय शीघ्रं मे लाघ्यः प्राप्तो रणातिथिः ।
तोषयिष्ये शरैर्भीष्मं जेष्यामीत्यमनोरथः ॥ १३॥
 
सूतः - यदाज्ञापयत्यायुष्मान् । आयुष्मन् !
 
रिपूणां सैन्यभेदेषु यस्ते परिचितो रथः ।
रथचर्यां बहिष्कर्तुं तमास्थायोत्तरो गतः ॥ १४ ॥
 
विराटः - कथं निर्यातः कुमारः ।
 
भगवान् भो राजन् ! संवार्यतां संवार्यतां कुमारः ।
अगणितगुणदोषो युद्ध तीक्ष्णश्च बाल्या-
 
न च दहति न कश्चित् सन्निकृष्टो रणाग्निः ।
अथच परिहरन्ते धार्तराष्ट्रा न किवि-
 
न खलु परिभवान् ते युद्धदोषान् ब्रवीमि ॥ १५ ॥
 
राजा - तेन हि शीघ्रमन्यो रथः कल्प्यताम् ।
 
सूतः - यदाज्ञापयत्यायुष्मान् ।
 
६ राजा - अथवा एहि तावत् ।
 
सूतः - आयुष्मन् ! अयमस्मि ।
 
राजा-
 
त्वमिदानीं कुमारस्य किं न वाहितवान् रथम् ।
अनुज्ञातोऽसि किं तेन न राज्ञां सारथिर्भवान् ॥ १६ ॥
 
२४