This page has been fully proofread once and needs a second look.

३८८

<page>

<speaker>
शकुनिः -</speaker> काले ज्ञास्यामि ।

<speaker>
द्रोणः -</speaker> ननु गाङ्गेय !

१२

<speaker>
भीष्म: - </speaker> <stage>( आत्मगतम् )

पचरात्रे

[i. 51.10

</stage>

<verse>
आचार्यस्य यदा हर्षो धैर्यमुत्क्रम्य सूचितः ।

शङ्के दुर्योधनेनैष वञ्च्यमानेन वतिःञ्चितः ॥ ५२ ॥
</verse>

<stage>
(प्रकाशम् )</stage> पौत्र दुर्योधन ! अस्ति मम विराटेनाप्रकाशं वैरम्,

अथ भवतो यज्ञमनुभवितुमनागत इति । तस्मात् क्रियतां तस्य

गोग्रहणम् । ब्राह्मणार्जवबुद्धे !

<verse>
धर्षिता रथशब्देन रोषमेष्यन्ति पाण्डवाः ।

अस्ति तेषां कृतज्ञत्वमिष्टं गोग्रहणे स्थितम् ॥ ५३ ॥

</verse>

<stage>
( प्रविश्य )

</stage>

<speaker>
भटः-</speaker> सज्जाः खलु रथा वाहाः प्रवेशाभिमुखाय ते ।

<verse><speaker>
दुर्योधन:-

</speaker>
एभिरेव रथैः शीघ्रं क्रियतां तस्य गोग्रहः ।
गदा यज्ञप्रशान्ता च पुनर्मे करमेष्यति ॥ ५४ ॥</verse>
<verse n="55aa"><speaker>
द्रोण:-

एभिरेव रथैः शीघ्रं क्रियतां तस्य गोग्रहः ।

गदा यज्ञप्रशान्ता च पुनर्मे करमेष्यति ॥ ५४ ॥

</speaker>
तस्मान्मे रथमानयन्तु पुरुषाः,

</verse>
<verse n="55ab"><speaker>
शकुनिः -</speaker> हस्ती ममानीयतां,

</verse>
<verse n="55b"><speaker>
कर्णः -

</speaker>
भारार्थं भृशमुद्यतैरिह हयैर्युक्तो रथः स्थाप्यताम् ।

</verse>
<verse n="55c"><speaker>
भीष्म:-

सर्वे-

</speaker>
बुद्धिर्मे त्वरते विराटनगरं गन्तुं धनुस्त्वर्यतां

</verse>
<verse n="55d"><speaker>सर्वे-
</speaker>
मुक्त्वा चापमिहैव तिष्ठतु भवानाज्ञाविधेया वयम् ॥ ५५ ॥
१६

</verse>
</page>