This page has not been fully proofread.

३८८
 
शकुनिः - काले ज्ञास्यामि ।
 
द्रोणः - ननु गाङ्गेय !
 
१२ भीष्म: - ( आत्मगतम् )
 
पचरात्रे
 
[i. 51.10
 
आचार्यस्य यदा हर्षो धैर्यमुत्क्रम्य सूचितः ।
 
शङ्के दुर्योधनेनैष वच्यमानेन वतिः ॥ ५२ ॥
(प्रकाशम् ) पौत्र दुर्योधन ! अस्ति मम विराटेनाप्रकाशं वैरम्,
अथ भवतो यज्ञमनुभवितुमनागत इति । तस्मात् क्रियतां तस्य
३ गोग्रहणम् । ब्राह्मणार्जवबुद्धे !
 
धर्षिता रथशब्देन रोषमेष्यन्ति पाण्डवाः ।
 
अस्ति तेषां कृतज्ञत्वमिष्टं गोग्रहणे स्थितम् ॥ ५३ ॥
 
( प्रविश्य )
 
भटः-सज्जाः खलु रथा वाहाः प्रवेशाभिमुखाय ते ।
दुर्योधन:-
 
द्रोण:-
 
एभिरेव रथैः शीघ्रं क्रियतां तस्य गोग्रहः ।
 
गदा यज्ञप्रशान्ता च पुनर्मे करमेष्यति ॥ ५४ ॥
 
तस्मान्मे रथमानयन्तु पुरुषाः,
 
शकुनिः - हस्ती ममानीयतां,
 
कर्णः -
 
भारार्थ भृशमुद्यतैरिह हयैर्युक्तो रथः स्थाप्यताम् ।
 
भीष्म:-
 
सर्वे-
 
बुद्धिर्मे त्वरते विराटनगरं गन्तुं धनुस्त्वर्यतां
 
मुक्त्वा चापमिहैव तिष्ठतु भवानाज्ञाविधेया वयम् ॥ ५५ ॥
१६