2025-12-29 10:00:43 by ambuda-bot
This page has not been fully proofread.
-i. 51.9]
प्रथमोऽङ्कः ।
सवें - किमागतो विराटेश्वरः ।
३८७
९ भटः - विषादेनावृतो नोपगच्छति, यत्तत्सम्बन्धि सन्निकृष्टं कीचकानां
भ्रातृशतं,
इति ।
रात्रौ छन्नेन केनापि बाहुभ्यामेव हिंसितम् ।
दृश्यते हि शरीराणामशस्त्रजनितो वधः ॥ ४९ ॥
भीष्मः–कथमशस्त्रेणेति । भो आचार्य ! अभ्युपगम्यतां पञ्चरात्रम् ।
३ द्रोणः–किमर्थम् ।
भीष्म:-
भीमसेनस्य लीलैषा सुव्यक्तं बाहुशालिनः ।
योऽस्मिन् भ्रातृशते रोषः स तस्मिन् फलितः शते ॥ ५० ॥
द्रोणः - कथं भवान जानाति ।
भीष्म:-
कथं पण्डित ! कूलेषु भ्रान्तानां बालचापलम् ।
नाभिजानन्ति वत्सानां शृङ्गस्थानानि गोवृषाः ॥ ५१ ॥
द्रोण: - गोवृषा इति । हन्त सिद्धं कार्यम् । पुत्र दुर्योधन ! अस्तु
पञ्चरात्रम् ।
३ दुर्योधनः- अथकिम् ।
द्रोणः - भो भो यज्ञमनुभवितुमागता राजानः ! शृण्वन्तु शृण्वन्तु
भवन्तः । इहात्रभवान् कुरुराजो दुर्योधनः, न, न, मातुलसहितः
६ यदि पाण्डवानां प्रवृत्तिरूपनेतव्या, राज्यस्यार्धं प्रदास्यति किल ।
ननु पुत्र !
दुर्योधनः- अथकिम् !
९ द्रोणः - एतद् द्विस्त्रिः सम्प्रधार्यताम् ।
१५