This page has been fully proofread once and needs a second look.

३८६

पञ्चरात्रे

[i. 45.6_

<page>

<speaker>
शकुनि:-</speaker> यदि पञ्चरात्रेण पाण्डवानां प्रवृत्तिरुपनेतव्या, राज्यस्यार्धं

प्रदास्यति किल । समानयतु भवानिदानीम् ।

<speaker>
द्रोण:-</speaker> मा तावद् भोः !

<verse>
ये कर्तुकामैश्छलनं भवद्भिः

संवत्सरैर्द्वादशभिर्न दृष्टाः ।

ते पञ्चरात्रेण मयोपनेया

वरं ह्यदत्तं विशदाक्षरेण ॥ ४६ ॥

</verse>

<speaker>
भीष्मः-</speaker>पौत्र दुर्योधन ! अच्छलो धर्मः । वयमपि तावदस्मिन्नर्थे

प्रीताः स्मः । पश्य पापौत्र !

<verse>
वर्षेण वा वर्षशतेन तेषां

त्वं पाण्डवानां कुरु संविभागम् ।

तस्मात् प्रतिज्ञां कुरु वीर ! सत्यां

सत्या प्रतिज्ञा हि सदा कुरूणाम् ॥ ४७ ॥

</verse>

<speaker>
दुर्योधनः-</speaker> एष एव मे निश्चयः ।

<speaker>
द्रोण:- </speaker> <stage>( आत्मगतम्)

</stage>

<verse>
अद्य मे कार्यलोभेन हनूमत्त्वं गता स्पृहा ।

लङ्घयित्वार्णवं येन नष्टा सीता निवेदिता ॥ ४८ ॥

</verse>

न्त् कुतोनुखलु पाण्डवानां प्रवृत्तिरूपनेतव्या ।

<stage>
( प्रविश्य )

</stage>

<speaker>
भटः -</speaker> जयतु महाराजः । विराटनगराद् दृतः प्राप्तः ।

<speaker>
सर्वे -</speaker> शीघ्रं प्रवेश्यताम् ।

<speaker>
भटः-</speaker> यदाज्ञापयथ । <stage>(निष्क्रान्तः । )

</stage>

<stage>( प्रविश्य )</stage>

<speaker>
दूतः -</speaker> जयतु महाराजः ।

( प्रविश्य )

१४

</page>