2025-12-29 10:00:43 by ambuda-bot
This page has not been fully proofread.
३८६
पञ्चरात्रे
[i. 45.6_
६ शकुनि:- यदि पञ्चरात्रेण पाण्डवानां प्रवृत्तिरुपनेतव्या, राज्यस्यार्धं
प्रदास्यति किल । समानयतु भवानिदानीम् ।
द्रोण:- मा तावद् भोः !
ये कर्तुकामैश्छलनं भवद्भिः
संवत्सरैर्द्वादशभिर्न दृष्टाः ।
ते पञ्चरात्रेण मयोपनेया
वरं दत्तं विशदाक्षरेण ॥ ४६ ॥
भीष्मः-पौत्र दुर्योधन ! अच्छलो धर्मः । वयमपि तावदस्मिन्नर्थे
प्रीताः स्मः । पश्य पात्र !
वर्षेण वा वर्षशतेन तेषां
त्वं पाण्डवानां कुरु संविभागम् ।
तस्मात् प्रतिज्ञां कुरु वीर ! सत्यां
सत्या प्रतिज्ञा हि सदा कुरूणाम् ॥ ४७ ॥
दुर्योधनः- एष एव मे निश्चयः ।
द्रोण:- ( आत्मगतम्)
अद्य मे कार्यलोभेन हनूमत्त्वं गता पहा ।
लङ्घयित्वार्णवं येन नष्टा सीता निवेदिता ॥ ४८ ॥
तन् कुतोनुखलु पाण्डवानां प्रवृत्तिरूपनेतव्या ।
( प्रविश्य )
३ भटः - जयतु महाराजः । विराटनगराद् दृतः प्राप्तः ।
६
सर्वे - शीघ्रं प्रवेश्यताम् ।
भटः- यदाज्ञापयथ । (निष्क्रान्तः । )
दूतः - जयतु महाराजः ।
( प्रविश्य )
१४