2026-01-27 05:43:26 by akprasad
This page has been fully proofread once and needs a second look.
प्रथमोऽङ्कः ।
३८५
<p><speaker>शकुनिः -</speaker> यदि दातव्ये राज्ये किमस्माभिः सह मन्त्रयसे । ननु
सर्वमेव प्रदीयताम् ।
९
<p><speaker>दुर्योधनः-</speaker> वयस्य अङ्गराज ! भवानिदानीं न किञ्चिदाह ।
<p><speaker>कर्णः -</speaker> इदानीं किमभिधास्यामि,
<verse>रामेण भुक्तां परिपालितां च
सुभ्रातृतां न प्रतिषेधयामि ।
क्षमाक्षमत्वे तु भवान् प्रमाणं
सङ्ग्रामकालेषु वयं सहायाः ॥ ४३ ॥
<p><speaker>दुर्योधनः-</speaker> मातुल ! बलवत्प्रत्यमित्रोऽनुपजीव्यश्च कश्चित् कुदेशश्चि-
न्त्यताम् । तत्र वसेयुः पाण्डवाः ।
३
<p><speaker>शकुनिः -</speaker> हन्त भोः !
<verse>शून्यमित्यभिधास्यामि कः पार्थाद् बलवत्तरः ।
ऊ
<p><speaker>दुर्योधनः-</speaker> अथेदानीं,
<verse>गुरुकरतलमध्ये तोयमावर्जितं मे
श्रुतमिह कुलवृद्धैर्यत् प्रमाणं पृथिव्याम् ।
तदिदमपनयो वा वञ्चना वा यथा वा
भवतु नृप ! जलं तत् सत्यमिच्छामि कर्तुम् ॥ ४५ ॥
<p><speaker>शकुनि:-</speaker> अनृतवचनान्मोचयितव्यो भवान् ननु ।
<p><speaker>दुर्योधनः-</speaker> अथ
३
<p><speaker>शकुनिः -</speaker> तेन हि इतस्तावत् । <stage>(उपसृत्य )</stage> भो आचार्य ! इहात्रभवान्
कुरुराजो भवन्तं विज्ञापयति ।
<p><speaker>द्रोणः -</speaker> वत्स गान्धारराज ! अभिधीयताम् ।
१३
</page>