2025-12-29 10:00:43 by ambuda-bot
This page has not been fully proofread.
―i. 45.5]
प्रथमोऽङ्कः ।
३८५
शकुनिः - यदि दातव्ये राज्ये किमस्माभिः सह मन्त्रयसे । ननु
सर्वमेव प्रदीयताम् ।
९ दुर्योधनः- वयस्य अङ्गराज ! भवानिदानीं न किचिदाह ।
कर्णः - इदानीं किमभिधास्यामि,
रामेण भुक्तां परिपालितां च
सुभ्रातृतां न प्रतिषेधयामि ।
क्षमाक्षमत्वे तु भवान् प्रमाणं
सङ्ग्रामकालेषु वयं सहायाः ॥ ४३ ॥
दुर्योधनः- मातुल ! बलवत्प्रत्यमित्रोऽनुपजीव्यश्च कश्चित् कुदेशश्चि-
न्त्यताम् । तत्र वसेयुः पाण्डवाः ।
३ शकुनिः - हन्त भोः !
शून्यमित्यभिधास्यामि कः पार्थाद् बलवत्तरः ।
ऊपरेष्वपि सस्यं स्याद् यत्र राजा युधिष्ठिरः ॥ ४४ ॥
दुर्योधनः- अथेदानीं,
गुरुकरतलमध्ये तोयमावर्जितं मे
श्रुतमिह कुलवृद्धैर्यत् प्रमाणं पृथिव्याम् ।
तदिदमपनयो वा वञ्चना वा यथा वा
भवतु नृप ! जलं तत् सत्यमिच्छामि कर्तुम् ॥ ४५ ॥
शकुनि:- अनृतवचनान्मोचयितव्यो भवान् ननु ।
दुर्योधनः- अथ किम् ।
३ शकुनिः - तेन हि इतस्तावत् । (उपसृत्य ) भो आचार्य ! इहात्रभवान्
कुरुराजो भवन्तं विज्ञापयति ।
द्रोणः - वत्स गान्धारराज ! अभिधीयताम् ।
१३