This page has been fully proofread once and needs a second look.

३८४

पचरात्रे

<page>

<speaker>
दुर्योधनः-</speaker> तेन हि समर्थयितुमिच्छामि ।

<speaker>
द्रोणः -</speaker> पुत्र ! केन समर्थयितुमिच्छसि ।

<verse>
भीष्मेण कर्णेन कृपेण केन किं सिन्धुराजेन जयद्रथेन ।

[i. 39.--

किं द्रौणिनाहो विदुरेण सार्धं पित्रा स्वमात्रा वद पुत्र ! केन ॥ ४० ॥
</verse>

<speaker>
दुर्योधनः-</speaker> नहि नहि, मातुलेन ।

<speaker>
द्रोणः -</speaker> शकुनिना । हन्त विपन्नं कार्यम् ।

<speaker>
दुर्योधनः-</speaker> मातुल ! इतस्तावत् । वयस्य कर्ण ! इतस्तावत् ।

<speaker>
द्रोणः -</speaker> भवतु, एवं तावत् करिष्ये । वत्स

गान्धारराज !
इतस्तावत् ।

<speaker>
शकुनिः -</speaker> अयमस्मि ।

<speaker>
द्रोणः -</speaker> वत्स !

<verse>
क्रोधप्रायं वयो जीर्णं क्षन्तव्यं बटुचापलम् ।

गान्धारराज !

अस्य रूक्षस्य वचसः परिष्वङ्गः शमीक्रिया ॥ ४१ ॥

</verse>

<speaker>
भीष्मः - </speaker> <stage>( आत्मगतम् )

</stage>

एष शिष्यस्य वात्सल्याच्छकुनिं याचते गुरुः ।

एवं सान्त्वीकृतो ह्ये नैव मुञ्चति जिह्यताम् ॥। ४२ ॥

<speaker>
शकुनिः - </speaker> <stage>( आत्मगतम् )</stage> अहो शठः खल्वाचार्यः स्वकार्यलोभान्मां

सान्त्वयति ।

<stage>
( सर्वे परिक्रम्यापविशन्ति । )
</stage>

<speaker>
दुर्योधनः-</speaker> मातुल ! पाण्डवानां राज्यार्धं प्रति को निश्चयः ।

<speaker>
शकुनिः -</speaker> न दातव्यमिति मे निश्चयः ।

<speaker>
दुर्योधनः-</speaker> दातव्यमिति वक्तुमर्हति मातुलः ।

<footnote lang="sa">
१. सान्त्वीकृतोऽप्येष ।

१२

</footnote>
</page>