This page has not been fully proofread.

३८४
 
पचरात्रे
 
दुर्योधनः- तेन हि समर्थयितुमिच्छामि ।
 
द्रोणः - पुत्र ! केन समर्थयितुमिच्छसि ।
 
भीष्मेण कर्णेन कृपेण केन किं सिन्धुराजेन जयद्रथेन ।
 
[i. 39.--
 
किं द्रौणिनाहो विदुरेण सार्धं पित्रा स्वमात्रा वद पुत्र ! केन ॥ ४० ॥
दुर्योधनः- नहि नहि, मातुलेन ।
 
द्रोणः - शकुनिना । हन्त विपन्नं कार्यम् ।
 
३ दुर्योधनः- मातुल ! इतस्तावत् । वयस्य कर्ण ! इतस्तावत् ।
 
द्रोणः - भवतु, एवं तावत् करिष्ये । वत्स
 
इतस्तावत् ।
 
६ शकुनिः - अयमस्मि ।
 

 
द्रोणः - वत्स !
 
क्रोधप्रायं वयो जीर्णं क्षन्तव्यं बटुचापलम् ।
 
गान्धारराज !
 
अस्य रूक्षस्य वचसः परिष्वङ्गः शमीक्रिया ॥ ४१ ॥
 
भीष्मः - ( आत्मगतम् )
 
एष शिष्यस्य वात्सल्याच्छकुनिं याचते गुरुः ।
 
एवं सान्त्वीकृतो ह्येप नैव मुञ्चति जिताम् ॥। ४२ ॥
 
शकुनिः - ( आत्मगतम् ) अहो शठः खल्वाचार्यः स्वकार्यलोभान्मां
सान्त्वयति ।
 
( सर्वे परिक्रम्यापविशन्ति । )
दुर्योधनः- मातुल ! पाण्डवानां राज्यार्धं प्रति को निश्चयः ।
शकुनिः - न दातव्यमिति मे निश्चयः ।
 
६ दुर्योधनः- दातव्यमिति वक्तुमर्हति मातुलः ।
 
१. सान्त्वीकृतोऽप्येष ।
 
१२