This page has been fully proofread once and needs a second look.

-i. 39. ]

प्रथमोऽङ्कः

:1

३८३

<page>

<speaker>
भीष्मः-</speaker>अन्यत् प्रस्तुतमन्यदापतितम् । भो आचार्य ! कार्यमत्र

गुरुतरं, न कलहः ।

<speaker>
द्रोणः -</speaker> मात्र कदर्थनं कार्यं, कलह एव भवतु ।

<speaker>
भीष्मः -</speaker> प्रसीदत्वाचार्यः । पश्य पौत्र !

<verse>ये
दुर्बलाश्च कृपणा निराश्रयाश्च

त्वत्तश्च शर्म मृगयन्ति न गर्वयन्ति ।

ज्येष्ठो भवान् प्रणयिनस्त्वयि ते कुटुम्बे

तान् धारयिष्यसि मृगैः सह वर्तयन्तु ॥ ३७ ॥

</verse>

<speaker>
शकुनिः-</speaker> वर्तयन्तु वर्तयन्तु ।

<speaker>
कर्णः-</speaker>भो आचार्य ! अलममर्षेण । दुर्योधनो हि नाम,

<verse>
हितमपि परुपाषार्थं रुष्यति श्राव्यमाणो

वरपुरुषविशेषं नेच्छति स्तूयमानम् ।

गतमिदमवसानं रक्ष्यतां शिष्यकार्यं

गज इव बहुदोषो मार्दवेनैव बाह्यः ॥ ३८ ॥

</verse>

<speaker>
द्रोण: -</speaker> वत्स कर्ण ! तेजस्त्रिवि ब्राह्मण्यम् । काले सम्बोधितोऽस्मि ।

एषोऽहं भवच्छन्दमनुवर्ते । पुत्र दुर्योधन ! अहं तव प्रभावी

ननु ।

<speaker>
भीष्मः -</speaker> एष इदानीं मार्गेणारब्धः । सान्त्वं हि नाम दुर्विनीताना-

मौषधम् ।

<speaker>
दुर्योधनः-</speaker> न ममैव, कुलस्यापि मे भवान् प्रभुः ।

<speaker>
द्रोणः-</speaker> एतत् तवैव युक्तम् । तत् पुत्र !

<verse>
त्वं वञ्च्यसे यदि मया न तवात्र दोष-

स्त्वां पीडयामि यदि वास्तु तवैष लाभः ।

भेदाः परस्परगता हि महाकुलानां

धर्माधिकारवचनेषु शमीभवन्ति ॥ ३९ ॥

११

</verse>
</page>