This page has not been fully proofread.

-i. 39. ]
 
प्रथमोऽङ्कः
 
:1
 
३८३
 
भीष्मः-अन्यत् प्रस्तुतमन्यदापतितम् । भो आचार्य ! कार्यमत्र
 
गुरुतरं, न कलहः ।
 
३ द्रोणः - मात्र कदर्थनं कार्यं, कलह एव भवतु ।
 
भीष्मः - प्रसीदत्वाचार्यः । पश्य पौत्र !
 
दुर्बलाश्च कृपणा निराश्रयाश्च
 
त्वत्तश्च शर्म मृगयन्ति न गर्वयन्ति ।
 
ज्येष्ठो भवान् प्रणयिनस्त्वयि ते कुटुम्बे
 
तान् धारयिष्यसि मृगैः सह वर्तयन्तु ॥ ३७ ॥
 
शकुनिः- वर्तयन्तु वर्तयन्तु ।
 
कर्णः-भो आचार्य ! अलममर्षेण । दुर्योधनो हि नाम,
हितमपि परुपार्थं रुष्यति श्राव्यमाणो
 
वरपुरुषविशेषं नेच्छति स्तूयमानम् ।
गतमिदमवसानं रक्ष्यतां शिष्यकार्यं
 
गज इव बहुदोषो मार्दवेनैव बाह्यः ॥ ३८ ॥
 
द्रोण: - वत्स कर्ण ! तेजस्त्रि ब्राह्मण्यम् । काले सम्बोधितोऽस्मि ।
एषोऽहं भवच्छन्दमनुवर्ते । पुत्र दुर्योधन ! अहं तव प्रभावी
३ ननु ।
 
भीष्मः - एष इदानीं मार्गेणारब्धः । सान्त्वं हि नाम दुर्विनीताना-
मौषधम् ।
 
६ दुर्योधनः- न ममैव, कुलस्यापि मे भवान् प्रभुः ।
 
द्रोणः- एतत् तवैव युक्तम् । तत् पुत्र !
 
त्वं वच्यसे यदि मया न तवात्र दोष-
स्त्वां पीडयामि यदि वास्तु तवैष लाभः ।
भेदाः परस्परगता हि महाकुलानां
धर्माधिकारवचनेषु शमीभवन्ति ॥ ३९ ॥
 
११