2026-01-27 05:24:24 by akprasad
This page has been fully proofread once and needs a second look.
पञ्चरात्रे
<verse>त्वं पाण्डवानां कुरु संविभाग-
मे
<p><speaker>शकुनिः -
<verse>उपन्यस्तस्य शिष्यम्य विश्वस्तस्य च गौरवे ।
यदप्रस्तुतमुत्पाद्य युक्तेयं धर्मवञ्चना ॥ ३२ ॥
[i. 31.--
<p><speaker>द्रोणः-</speaker> कथं धर्मवञ्चनेति । मा तावद् भो गान्धारविषयविस्मित
शकुने ! त्वदनार्यभावात् सर्वलोकमनार्यमिति मन्यसे । हन्त भोः !
<verse>भ्रातॄणां पैतृकं राज्यं दीयतामि
किं वरं
<p><speaker>सर्वे
<p><speaker>भीष्मः
मित्रमुखस्य शत्रोः शकुनेर्वचनं न श्रोतव्यम् । पश्य पौत्र !
<verse>यत् पाण्डवा दुपदराजसुतासहायाः
कान्ताररेणुपरुषाः पृथिवीं भ्रमन्ति ।
यत् त्वं च तेषु विमुखस्त्वयि ते च वामा-
स्तत् सर्वमेव शकुनेः परुषावलेपः ॥ ३४ ॥
<p><speaker>दुर्योधनः -</speaker> भवतु, एवं तावदाचार्य ! पृच्छामि ।
<p><speaker>द्रोण:-</speaker> पुत्र ! कथय ।
<p><speaker>दुर्योधनः-
<verse>यत् पुरा ते सभामध्ये राज्ये माने च धर्षिताः ।
बलात्कारसमर्थैस्तैः किं रोषो धारितस्तदा ॥ ३५ ॥
<p><speaker>द्रोणः-</speaker>अत्रेदानीं धर्मच्छलेन वञ्चितो द्यूताश्रयवृत्तिर्युधिष्ठिरः प्रष्टव्यः,
<verse>येन भीमः सभास्तम्भं तुलयन्नेव वारितः ।
१. परम् ।
यद्येकस्मिन् विमुक्तः स्यान्नास्माञ्छकुनिराक्षिपेत् ॥ ३६ ॥
<footnote lang="sa">१
</page>