2025-12-29 10:00:43 by ambuda-bot
This page has not been fully proofread.
३८२
पञ्चरात्रे
त्वं पाण्डवानां कुरु संविभाग-
मेपा च भिक्षा मम दक्षिणा च ॥ ३१ ॥
शकुनिः - ( सोद्वेगम् ) मा तावद् भोः !
उपन्यस्तस्य शिष्यम्य विश्वस्तस्य च गौरवे ।
यदप्रस्तुतमुत्पाद्य युक्तेयं धर्मवचना ॥ ३२ ॥
[i. 31.--
द्रोणः कथं धर्मवञ्चति । मा तावद् भो गान्धारविषयविस्मित
शकुने ! त्वदनार्यभावात् सर्वलोकमनार्यमिति मन्यसे । हन्त भोः !
भ्रातॄणां पैतृकं राज्यं दीयतामिनि वचना ।
किं वरं' याचितैर्दत्तं बलात्कारेण तैर्हृतम् ॥ ३३॥
सर्वे - कथं बलात्कारेण नाम ।
भीष्मः - पौत्र दुर्योधन ! अवभृथस्नानमात्रमेव खलु तावत् ।
मित्रमुखस्य शत्रोः शकुनेर्वचनं न श्रोतव्यम् । पश्य पौत्र !
यत् पाण्डवा दुपदराजसुतासहायाः
कान्ताररेणुपरुषाः पृथिवीं भ्रमन्ति ।
यत् त्वं च तेषु विमुखस्त्वयि ते च वामा-
स्तत् सर्वमेव शकुनेः परुषावलेपः ॥ ३४ ॥
दुर्योधनः - भवतु, एवं तावदाचार्य ! पृच्छामि ।
द्रोण:- पुत्र ! कथय ।
दुर्योधनः-
यत् पुरा ते सभामध्ये राज्ये माने च धर्षिताः ।
बलात्कारसमथैस्तैः किं रोषो धारितस्तदा ॥ ३५ ॥
द्रोणः-अत्रेदानीं धर्मच्छलेन वञ्चितो द्यूताश्रयवृत्तिर्युधिष्ठिरः प्रष्टव्यः,
येन भीमः सभास्तम्भं तुलयन्नेव वारितः ।
१. परम् ।
यद्येकस्मिन् विमुक्तः स्यान्नास्माञ्छकुनिराक्षिपेत् ॥ ३६ ॥
१०