2026-01-27 05:20:29 by akprasad
This page has been fully proofread once and needs a second look.
प्रथमोऽङ्कः ।
<verse>प्राणाधिकोऽस्मि भवता च कृतोपदेशः
शूरेषु यामि गणनां कृतसाहसोऽस्मि ।
स्वच्छन्दतो वद किमिच्छसि किं ददानि
हस्ते स्थिता मम ग
<p><speaker>द्रोणः -</speaker> पुत्र ! ब्रवीमि खलु तावत् । बाष्पवेगस्तु मां बाधते ।
<p><speaker>सर्वे -</speaker> कथमाचार्योऽपि बाष्पमुत्सृजति ।
३
<p><speaker>भीष्मः -</speaker> पौत्र दुर्योधन ! अफलस्ते परिश्रमः ।
<p><speaker>दुर्योधनः-</speaker> को
६
<p><stage>( प्रविश्य )</stage></p>
<p><speaker>भटः -</speaker> जयतु महाराजः ।
<p><speaker>दुर्योधनः-</speaker> आपस्तावत् ।
( प्रविश्य )
३८१
<p><speaker>भटः -</speaker> यदाज्ञापयति महाराजः । <stage>(निष्क्रम्य प्रविश्य)</stage> जयतु महा-
९
राजः । इमा आपः ।
<p><speaker>दुर्योधनः-</speaker> आनय । <stage>( कलशं गृहीत्वा )</stage> भो आचार्य ! अश्रुपातो-
च्छिष्टस्य क्रियतां शौचम् ।
१२
<p><speaker>द्रोणः -</speaker> भवतु भवतु । मम कार्यक्रियैव मुखोदकमस्तु ।
<p><speaker>दुर्योधनः-</speaker> हा धिग्,
<verse>यदि विमृशसि पूर्वजातां मे
यदि च समर्थयसे न दास्यतीति ।
शरशतकठिनं प्रयच्छ हस्तं
सलिलमिदं करणं प्रतिग्रहाणाम् ॥ ३० ॥
<p><speaker>द्रोणः -</speaker> हन्त लब्धो मे हृदयविश्वासः । पुत्र ! श्रूयतां,
<verse merge-next="true">येषां गतिः कापि निराश्रयाणां
संवत्सरैर्द्वादशभिर्न दृष्टा ।
</page>