This page has not been fully proofread.

—i. 31. ]
 
प्रथमोऽङ्कः ।
 
प्राणाधिकोऽस्मि भवता च कृतोपदेशः
 
शूरेषु यामि गणनां कृतसाहसोऽस्मि ।
स्वच्छन्दतो वद किमिच्छसि किं ददानि
 
हस्ते स्थिता मम गढ़ा भवतश्च सर्वम् ॥ २९ ॥
 
द्रोणः - पुत्र ! ब्रवीमि खलु तावत् । बाष्पवेगस्तु मां बाधते ।
सर्वे - कथमाचार्योऽपि बाष्पमुत्सृजति ।
 
३ भीष्मः - पौत्र दुर्योधन ! अफलस्ते परिश्रमः ।
 
दुर्योधनः- कोsa ।
 
६ भटः - जयतु महाराजः ।
 
दुर्योधनः- आपस्तावत् ।
 
( प्रविश्य )
 
३८१
 
भटः - यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य) जयतु महा-
९ राजः । इमा आपः ।
 
दुर्योधनः- आनय । ( कलशं गृहीत्वा ) भो आचार्य ! अश्रुपातो-
च्छिष्टस्य क्रियतां शौचम् ।
 
१२ द्रोणः - भवतु भवतु । मम कार्यक्रियैव मुखोदकमस्तु ।
 
दुर्योधनः- हा धिग्,
 
यदि विमृशसि पूर्वजातां मे
 
यदि च समर्थयसे न दास्यतीति ।
 
शरशतकठिनं प्रयच्छ हस्तं
 
सलिलमिदं करणं प्रतिग्रहाणाम् ॥ ३० ॥
 
द्रोणः - हन्त लब्धो मे हृदयविश्वासः । पुत्र ! श्रूयतां,
येषां गतिः कापि निराश्रयाणां
 
संवत्सरैर्द्वादशभिर्न दृष्टा ।