This page has not been fully proofread.

३८०
 
पचरात्रे
 
[i. 27.6-
 
६ नाम भवन्तं सभाजयिष्यति ।
 
दुर्योधनः – स्वागतमार्याय ।
 
द्रोणः - पुत्र
 
दुर्योधन ! भवतो यज्ञं सभाजयता वासुभद्रेण
 
९ प्रेषितोऽभिमन्युर्भवन्तं सभाजयति ।
 
शकुनि:-
 
:-वत्स दुर्योधन ! एप जरासन्धपुत्रः सहदेवो भवन्तमभि-
 
वादयति ।
 
१२ दुर्योधनः- एह्येहि वत्स ! पितृसदृशपराक्रमो भव ।
 
सर्वे - एतत् सर्वराजमण्डलं भवन्तं सभाजयति ।
 
दुर्योधनः- अनुगृहीतोऽस्मि । भोः ! किन्नुखलु समागते सर्वराज-
१५ मण्डले विराटो नागच्छति ।
 
शकुनिः - प्रेषितोऽस्य मया दूतः, शङ्के पथि वर्तत इति ।
 
दुर्योधनः- भो आचार्य ! धर्मे धनुषि चाचार्य ! प्रतिगृह्यतां
 
१८ दक्षिणा ।
 
द्रोणः - दक्षिणेति ।
 
भवतु भवतु ।
 
व्यपश्रयिष्ये
 
तावद्
 
भवन्तम् ।
 
२१ दुर्योधनः- कथमाचार्योऽपि व्यपश्रयिष्यते ।
भीष्मः - भोः ! किन्नुखलु प्रयोजनं, यदा-
 
पीतः सोमो बाल्यदत्तो नियोगा-
 
च्छत्रच्छाया सेव्यते ख्यातिरस्ति ।
किं तद् द्रव्यं किं फलं को विशेष:
 
क्षत्राचार्यो यत्र विप्रो दरिद्रः ॥ २८ ॥
 
दुर्योधनः- आज्ञापयतु भवान् किमिच्छति । किमनुतिष्ठामि ।
द्रोणः - पुत्र दुर्योधन ! कथयामि ।
 
दुर्योधनः- किमिदानीं भवता विचार्यते,