2026-01-27 05:15:44 by akprasad
This page has been fully proofread once and needs a second look.
प्रथमोऽङ्कः ।
३७९
<p><speaker>द्रोणः-</speaker> नोत्सहन्ते महात्मानो ह्यात्मानमपस्तोतुम् । एहि पुत्र !
अभिवादयस्व माम् ।
३
<p><speaker>दुर्योधनः-</speaker> आचार्य ! अभिवादये ।
<p><speaker>द्रोणः -</speaker> एह्येहि पुत्र ! एवमेवावभृथस्नानेषु खेदमवाप्नुहि ।
<p><speaker>दुर्योधनः -</speaker>- अनुगृहीतोऽस्मि । पितामह ! अभिवादये ।
६
<p><speaker>भीष्मः -</speaker> एह्येहि पौत्र ! एवमेव ते बुद्धिप्रशमनं भवतु
<p><speaker>दुर्योधनः-</speaker> अनुगृहीतोऽस्मि । मातुल ! अभिवादये ।
<p><speaker>शकुनि:-
:-
<verse>एवमेव क्रतून् सर्वान् समानीयाप्तदक्षिणान् ।
राजसूये नृपान् जित्वा जरासन्ध इवानय ॥ २६ ॥
<p><speaker>द्रोणः -</speaker> अहो ! आशीर्वचनेऽपि शकुनिरुद्योगं जनयति । अहो !
प्रियविरोधः खल्वयं क्षत्रियकुमारः ।
<p><speaker>दुर्योधनः-</speaker> वयस्य कर्ण! गुरुजनप्रणामावसाने प्राप्तक्रममुपभुज्यतां
वयस्यविस्रम्भः ।
<p><speaker>कर्णः -
<verse>क्रतुव्रतैस्ते तनु गात्रमेतत्
सोढुं बलं शिक्ष्यसि पीडयानि ।
अन्तस्त्वनामन्त्र्य न धर्षया
राजर्षिधीराद् वचनाद् भयं मे ॥ २७ ॥
<p><speaker>दुर्योधनः-</speaker> एवमेव ते बुद्धिरस्तु ।
<p><speaker>द्रोणः -</speaker> पुत्र दुर्योधन ! एष महेन्द्रप्रियसखो भीष्मको नाम भवन्तं
३
सभाजयति ।
<p><speaker>दुर्योधनः –</speaker> स्वागतमार्याय । अभिवादये ।
<p merge-next="true"><speaker>भीष्मः -</speaker> पौत्र दुर्योधन ! एष दक्षिणापथपरिघभूतो भूरिश्रवा
७
</page>