This page has not been fully proofread.

-i. 27.5]
 
प्रथमोऽङ्कः ।
 
३७९
 
द्रोणः- नोत्सहन्ते महात्मानो ह्यात्मानमपस्तोतुम् । एहि पुत्र !
 
अभिवादयस्व माम् ।
 
३ दुर्योधनः- आचार्य ! अभिवादये ।
 
द्रोणः - एह्येहि पुत्र ! एवमेवावभृथस्नानेषु खेदमवाप्नुहि ।
दुर्योधनः -- अनुगृहीतोऽस्मि । पितामह ! अभिवादये ।
६ भीष्मः - एह्येहि पौत्र ! एवमेव ते बुद्धिप्रशमनं भवतु
दुर्योधनः- अनुगृहीतोऽस्मि । मातुल ! अभिवादये ।
शकुनि:-
 
:-वत्स !
 
एवमेव क्रतून् सर्वान् समानीयाप्तदक्षिणान् ।
 
राजसूये नृपान् जित्वा जरासन्ध इवानय ॥ २६ ॥
 
द्रोणः - अहो ! आशीर्वचनेऽपि शकुनिरुद्योगं जनयति । अहो !
प्रियविरोधः खल्वयं क्षत्रियकुमारः ।
 
दुर्योधनः- वयस्य कर्ण! गुरुजनप्रणामावसाने प्राप्तक्रममुपभुज्यतां
वयस्यविस्रम्भः ।
 
कर्णः -- गान्धारीमातः !
 
क्रतुव्रतैस्ते तनु गात्रमेतत्
 
सोढुं बलं शिक्ष्यसि पीडयानि ।
 
अन्तस्त्वनामन्त्र्य न धर्षयाम
 
राजर्षिधीराद् वचनाद् भयं मे ॥ २७ ॥
 
दुर्योधनः- एवमेव ते बुद्धिरस्तु ।
 
द्रोणः - पुत्र दुर्योधन ! एष महेन्द्रप्रियसखो भीष्मको नाम भवन्तं
 
३ सभाजयति ।
 
दुर्योधनः – स्वागतमार्याय । अभिवादये ।
 
भीष्मः - पौत्र दुर्योधन ! एष दक्षिणापथपरिघभूतो भूरिश्रवा