2025-12-29 10:00:42 by ambuda-bot
This page has not been fully proofread.
-i. 27.5]
प्रथमोऽङ्कः ।
३७९
द्रोणः- नोत्सहन्ते महात्मानो ह्यात्मानमपस्तोतुम् । एहि पुत्र !
अभिवादयस्व माम् ।
३ दुर्योधनः- आचार्य ! अभिवादये ।
द्रोणः - एह्येहि पुत्र ! एवमेवावभृथस्नानेषु खेदमवाप्नुहि ।
दुर्योधनः -- अनुगृहीतोऽस्मि । पितामह ! अभिवादये ।
६ भीष्मः - एह्येहि पौत्र ! एवमेव ते बुद्धिप्रशमनं भवतु
दुर्योधनः- अनुगृहीतोऽस्मि । मातुल ! अभिवादये ।
शकुनि:-
:-वत्स !
एवमेव क्रतून् सर्वान् समानीयाप्तदक्षिणान् ।
राजसूये नृपान् जित्वा जरासन्ध इवानय ॥ २६ ॥
द्रोणः - अहो ! आशीर्वचनेऽपि शकुनिरुद्योगं जनयति । अहो !
प्रियविरोधः खल्वयं क्षत्रियकुमारः ।
दुर्योधनः- वयस्य कर्ण! गुरुजनप्रणामावसाने प्राप्तक्रममुपभुज्यतां
वयस्यविस्रम्भः ।
कर्णः -- गान्धारीमातः !
क्रतुव्रतैस्ते तनु गात्रमेतत्
सोढुं बलं शिक्ष्यसि पीडयानि ।
अन्तस्त्वनामन्त्र्य न धर्षयाम
राजर्षिधीराद् वचनाद् भयं मे ॥ २७ ॥
दुर्योधनः- एवमेव ते बुद्धिरस्तु ।
द्रोणः - पुत्र दुर्योधन ! एष महेन्द्रप्रियसखो भीष्मको नाम भवन्तं
३ सभाजयति ।
दुर्योधनः – स्वागतमार्याय । अभिवादये ।
भीष्मः - पौत्र दुर्योधन ! एष दक्षिणापथपरिघभूतो भूरिश्रवा
७