This page has been fully proofread once and needs a second look.

३७८

<page>

<speaker>
कर्णः -</speaker> गान्धारीमातः !

भवता कृतम् । कुतः,

पञ्चरात्रे

[ i. 21.——

न्यायेनागतमर्थमतिसृजता न्याय्यमेव

भवता कृतम् । कुतः,

<verse>
बाणाधीन क्षत्रियाणां समृद्धिः

पुत्रापेक्षी वञ्च्यते सन्निधाता ।

विप्रोत्सङ्गे वित्तमावर्ज्य सर्वं

राज्ञा देयं चापमात्रं सुतेभ्यः ॥ २२ ॥

</verse>

<speaker>
शकुनिः-</speaker> सम्यगाह गङ्गनेगोपस्पर्शनाद् धौतकल्मषाङ्गोऽङ्गराजः ।

<speaker>
कर्णः -

</speaker>

<verse>
इक्ष्वाकुशर्थ्य्यातिययातिराम-

मान्धातृनाभागनृगाम्बरीषाः ।

एते सकोशाः पुरुषाः सराष्ट्रा

नष्टाः शरीरैः क्रतुभिर्धरन्ते ॥ २३ ॥

</verse>

<speaker>
सर्वे -</speaker> गान्धारीमातः ! यज्ञसमाप्त्या दिष्ट्या भवान् वर्धते ।

<speaker>
दुर्योधनः-</speaker> अनुगृहीतोऽस्मि । भो आचार्य ! अभिवादये ।
३.

<speaker>
द्रोणः -</speaker> एह्येहि पुत्र ! अयमक्रमः ।

<speaker>
दुर्योधनः-</speaker> अथ कः क्रमः ।

<speaker>
द्रोणः -</speaker> किं न पश्यति भवान्,

<verse>
दैवतं मानुषीभूतमे तावन्नमस्यक्तताम् ।

अन्यायाचरणं मन्ये भीष्ममुत्क्रम्य वन्दितुम् ॥ २४॥
</verse>

<speaker>
भीष्मः-</speaker> मा मा भवानेम् । बहुभिः कारणैरपकृष्टोऽहं भवतः ।

कुतः,

<verse>
अहं हि मात्रा जनितो भवान् स्वयं

ममायुधं वृत्तिरपह्नवस्तव ।

द्विजो भवान् क्षत्रियवंशजा वयं

गुरुर्भवान् शिष्यमहत्तरा वयं ॥ २५ ॥

</verse>
</page>