This page has not been fully proofread.

३७८
 
कर्णः - गान्धारीमातः !
 
भवता कृतम् । कुतः,
 
पञ्चरात्रे
 
[ i. 21.——
 
न्यायेनागतमर्थमतिसृजता न्याय्यमेव
 
बाणाधीन क्षत्रियाणां समृद्धिः
 
पुत्रापेक्षी वञ्च्यते सन्निधाता ।
 
विप्रोत्सङ्गे वित्तमावर्ज्य सर्वं
 
राज्ञा देयं चापमात्रं सुतेभ्यः ॥ २२ ॥
 
शकुनिः- सम्यगाह गङ्गनेपस्पर्शनाद् धौतकल्मषाङ्गोऽङ्गराजः ।
 
कर्णः -
 
इक्ष्वाकुशर्थ्यातिययातिराम-
मान्धातृनाभागनृगाम्बरीषाः ।
 
एते सकोशाः पुरुषाः सराष्ट्रा
 
नष्टाः शरीरैः क्रतुभिर्धरन्ते ॥ २३ ॥
 
सर्वे - गान्धारीमातः ! यज्ञसमाप्त्या दिष्ट्या भवान् वर्धते ।
दुर्योधनः- अनुगृहीतोऽस्मि । भो आचार्य ! अभिवादये ।
३. द्रोणः - एह्येहि पुत्र ! अयमक्रमः ।
 
दुर्योधनः- अथ कः क्रमः ।
 
द्रोणः - किं न पश्यति भवान्,
 
दैवतं मानुषीभूतमेप तावन्नमस्यक्तम् ।
 
अन्यायाचरणं मन्ये भीष्ममुत्क्रम्य वन्दितुम् ॥ २४॥
भीष्मः- मा मा भवानेयम् । बहुभिः कारणैरपकृष्टोऽहं भवतः ।
 
कुतः,
 
अहं हि मात्रा जनितो भवान् स्वयं
 
ममायुधं वृत्तिरपह्नवस्तव ।
 
द्विजो भवान् क्षत्रियवंशजा वयं
 
गुरुर्भवान् शिष्यमहत्तरा वयं ॥ २५ ॥