2026-01-27 05:07:15 by akprasad
This page has been fully proofread once and needs a second look.
प्रथमोऽङ्कः ।
<verse>इत्येवमागतकथामधुरं ब्रुवन्तः
कुर्वन्ति पाण्डवपरिग्रहमेव पौराः ॥ १८ ॥
<p>तदागम्यताम् । वयमपि तावत् कुरुराजं सम्भावयामः ।
<p><speaker>उभौ-</speaker>बाढम् ।
<p><speaker>सर्वे-
-
<trailer>विष्कम्भकः ।
<p><stage>( त
<p><speaker>द्रोणः-</speaker> धर्ममालम्बमानेन दुर्योधनेनाहमेवानुगृहीतो नाम ।
कुतः,
<p>अतीत्य बन्धूनवलङ्घ्य मित्रा-
ण्याचार्यमागच्छति शिष्यदोषः ।
बालं ह्यपत्यं गुरवे प्रदातु-
र्नैवापराधोऽस्ति पितुर्न मातुः ॥ १९<error>०</error>॥
<p><speaker>भीष्मः -</speaker> एष दुर्योधनः,
दुर्योधनः-
पञ्च. २१
<verse>अवाप्य रुप्यग्रहणात् समुच्छ्रयं
रणप्रियत्वादयशो निपीतवान् ।
निषेव्य धर्मं सुकृतस्य भाजनं
स एव रूपेण चिरस्य शोभते ॥ २० ॥
<p><stage>( ततः प्रविशति दुर्योधनः कर्णः शकुनिश्व । )
<verse><speaker>दुर्योधनः-</speaker>
कृतश्रद्धो ह्यात्मा वहति परितोषं गुरुजनो
जगद् विश्वस्तं मे निवसति गुणो नष्टमयशः ।
मृतैः प्राप्यः स्वर्गे यदि कथयत्येतदनृतं
परोक्षो न स्वर्गे बहुगुणमिहैवैष फलति ॥ २१ ॥
३७७
</page>