This page has been fully proofread once and needs a second look.

३७६

<page>

<speaker>
द्वितीयः -</speaker> एष एपः

पञ्चरात्रे

<verse>
गतो वृक्षाद् वृक्षं वितत कुशचीरेण दहनः

कदल्या विप्लुष्टं पतति परिणामादिव फलम् ।

असौ चाम्रे तालो मधुपटलचक्रेण महता

[i. 13.

चिरं मूले दग्धः परशुरिव रुद्रस्य पतति ॥ १४ ॥

</verse>

<speaker>
तृतीयः -</speaker> हन्त सत्पुरुषरोष इव प्रशान्तो भगवान् हुताशनः ।

<verse>
एतदभेग्नेर्बलं नष्टमिन्धनानां परिक्षयान् ।

दानशक्तिरिवार्यस्य विभवानां परिक्षयान् ॥ १५ ॥

</verse>

<speaker>
प्रथमः-

</speaker>

<verse>
स्रुग्भाण्डमरणीं दर्भानुपभुङ्के हुताशनः ।

व्यसनित्वान्नरः क्षीणः परिच्छदमिवात्मनः ॥ १६ ॥

</verse>

<speaker>
द्वितीय:-

</speaker>

<verse>
अवनतविटपो नदीपलाश:

पवनवशाञ्च्चलितैकपर्णहस्तः ।

दवदहनविपन्नजीविताना-

मुदकमिवैष करोति पादपानाम् ॥ १७ ॥

</verse>

<speaker>
तृतीयः -</speaker> तदागम्यताम् । वयमपि तावदुपस्पृशामः ।

<speaker>
उभौ-</speaker>बाढम् ।

<stage>
( सर्वे उपस्पृश्य )

</stage>

<speaker>
प्रथमः-</speaker> अये अयमत्रभवता कुरुराजो दुर्योधनो भीष्मद्रोणपुरःसरः

सर्वराजमण्डलेनानुगम्यमान इत एवाभिवर्तते । इमे हि,

<verse merge-next="true">
यज्ञेन भोजय महीं जय विक्रमेण

रोषं परित्यज, भव स्वजने दयावान् ।

</verse>
</page>