2025-12-29 10:00:42 by ambuda-bot
This page has not been fully proofread.
३७६
द्वितीयः - एष एपः
,
३
पञ्चरात्रे
गतो वृक्षाद् वृक्षं वितत कुशचीरेण दहनः
कदल्या विप्लष्टं पतति परिणामादिव फलम् ।
असौ चाम्रे तालो मधुपटलचक्रेण महता
[i. 13.
चिरं मूले दग्धः परशुरिव रुद्रस्य पतति ॥ १४ ॥
तृतीयः - हन्त सत्पुरुषरोष इव प्रशान्तो भगवान् हुताशनः ।
एतदभेर्बलं नष्टमिन्धनानां परिक्षयान् ।
दानशक्तिरिवार्यस्य विभवानां परिक्षयान् ॥ १५ ॥
प्रथमः-
स्रुग्भाण्डमरणीं दर्भानुपभुङ्के हुताशनः ।
व्यसनित्वान्नरः क्षीणः परिच्छदमिवात्मनः ॥ १६ ॥
द्वितीय:-
अवनतविटपो नदीपलाश:
पवनवशाञ्चलितैकपर्णहस्तः ।
दवदहनविपन्नजीविताना-
मुदकमिवैष करोति पादपानाम् ॥ १७ ॥
तृतीयः - तदागम्यताम् । वयमपि तावदुपस्पृशामः ।
उभौ-बाढम् ।
( सर्वे उपस्पृश्य )
प्रथमः- अये अयमत्रभवता कुरुराजो दुर्योधनो भीष्मद्रोणपुरःसरः
सर्वराजमण्डलेनानुगम्यमान इत एवाभिवर्तते । इमे हि,
यज्ञेन भोजय महीं जय विक्रमेण
रोषं परित्यज, भव स्वजने दयावान् ।
४