This page has been fully proofread once and needs a second look.

---i. 13.]

<page>

<speaker>
तृतीय:-

प्रथमोऽङ्कः ।

</speaker>

<verse>
शकटी च घृतापूर्णा सिच्यमानापि वारिणा ।

नारीवावोपरतापत्या बालस्नेहेन दह्यते ॥ ८ ॥

</verse>

<speaker>
प्रथमः-</speaker> सम्यग् भवानाह

<verse>
एतां चक्रधरस्य धर्मशकटीं दग्धुं समभ्युद्यतो

दर्भे शुष्यति नीलशाद्वलतया वह्निः शनैर्वामनः ।

वातेनाकुलितः शिखापरिगतश्चक्रं क्रमेणागतो

नेमीमण्डलमण्डलीकृतवपुः सूर्यायते पावकः ॥ ९ ॥

</verse>

<speaker>
द्वितीयः -</speaker> इदमपरं पश्य,

<verse>
वल्मीकमूलाद् दहनेन भीता-

स्तत्कोटरैः पञ्च समं भुजङ्गाः ।

समं विपन्नस्य नरस्य देहाद्

विनिःसृताः पञ्च यथेन्द्रियाणि ॥ १० ॥

</verse>

<speaker>
तृतीय :यः-</speaker> इदमपरं पश्येतां भवन्तीतौ,

<verse>
दह्यमानस्य वृक्षस्य सानिलेन मखाग्निना ।

कोटरान्तरदेहस्थाः खगाः प्राणा इवोद्गताः ॥ ११ ॥

</verse>

<speaker>
प्रथमः-</speaker> एवमेतत्,

<verse>
शुष्केणैकेन वृक्षेण वनं पुष्पितपादपम् ।

कुलं चारित्रहीनेन पुरुषेणेव दह्यते ॥ १२ ॥

</verse>
<verse>
वनं सवृक्षक्षुपगुल्ममेतत्

प्रकाममाहारमिवोपभुज्य ।

कुशानुसारेण हुताशनोऽसौ

नदीमुपस्प्रष्टुमिवावतीर्णः ॥ १३ ॥

३७५

</verse>
</page>