This page has not been fully proofread.

---i. 13.]
 
तृतीय:-
 
प्रथमोऽङ्कः ।
 
शकटी च घृतापूर्णा सिच्यमानापि वारिणा ।
नारीवापरतापत्या बालस्नेहेन दह्यते ॥ ८ ॥
 
प्रथमः- सम्यग् भवानाह
 
एतां चक्रधरस्य धर्मशकटीं दग्धुं समभ्युद्यतो
 
दर्भे शुष्यति नीलशाद्वलतया वह्निः शनैर्वामनः ।
वातेनाकुलितः शिखापरिगतश्चक्रं क्रमेणागतो
नेमीमण्डलमण्डलीकृतवपुः सूर्यायते पावकः ॥ ९ ॥
 
द्वितीयः - इदमपरं पश्य,
 
वल्मीकमूलाद् दहनेन भीता-
 
स्तत्कोटरैः पञ्च समं भुजङ्गाः ।
 
समं विपन्नस्य नरस्य देहाद्
 
विनिःसृताः पञ्च यथेन्द्रियाणि ॥ १० ॥
 
तृतीय :- इदमपरं पश्येतां भवन्ती,
 
दह्यमानस्य वृक्षस्य सानिलेन मखाग्निना ।
 
कोटरान्तरदेहस्थाः खगाः प्राणा इवोद्गताः ॥ ११ ॥
 
प्रथमः- एवमेतत्,
 
शुष्केणैकेन वृक्षेण वनं पुष्पितपादपम् ।
 
कुलं चारित्रहीनेन पुरुषेणेव दह्यते ॥ १२ ॥
 
वनं सवृक्षक्षुपगुल्ममेतत्
प्रकाममाहारमिवोपभुज्य ।
 
कुशानुसारेण हुताशनोऽसौ
नदीमुपस्प्रष्टुमिवावतीर्णः ॥ १३ ॥
 

 
३७५