2026-01-27 04:35:31 by akprasad
This page has been fully proofread once and needs a second look.
पचरात्रे
[ i. 3.—
<verse>द्विजोच्छिष्ठैरन्नैः प्रकुसुमितकाशा इव दिशो
हविर्धूमैः सर्वे हृतकुसुमगन्धास्त
मृगैस्तुल्या व्याघ्रा वधनिभृतसिंहाश्च गिरयो
नृपे दीक्षां प्राप्ते जगदपि समं दीक्षितमिव ॥ ३ ॥
<p><speaker>द्वितीयः-</speaker> सम्यग् भवानाह ।
<verse>तृप्तोऽग्निर्हविषामरोत्तममुखं तृप्ता द्विजेन्द्रा धनै-
स्तृप्ताः पक्षिगणाश्च गोगणयुतास्ते ते नराः सर्वशः ।
हृष्टं सम्प्रति सर्वतो जगदिदं गर्जन्नृपे सद्गुणै-
रेवं लोकमुदारुरोह सकलं देवालयं तद्गुणैः ॥ ४ ॥
<p><speaker>तृतीयः -</speaker> इमेऽत्रभवन्तो द्विजातयः,
<verse>राज्ञां वेष्टनपट्टघृष्टचरणाः श्लाघ्यप्रभूतश्रवा
वार्द्धक्येऽप्यभिवर्धमाननियमाः स्वाध्यायशूरैर्मुखैः ।
विप्रा यान्ति वयःप्रकर्षशिथिला यष्टित्रिपादक्रमाः
शिष्यस्कन्ध
<p><speaker>सर्वे -</speaker> भो भो माणवकाः भो भो माणवकाः ! अनवसितेऽव-
भृथस्नाने न खलु तावदग्निरुत्स्रष्टव्यो भवद्भिः ।
<p><speaker>प्रथमः-</speaker> हा धिग्, दर्शितमेव तावद् वटुचापलम् ।
<verse>एषा दी
चैत्या
नात्यर्थं
प्राग्वंशं चैष धूमो गज इव नलिनी फुल्लां प्रविशति ॥ ६ ॥
<p><speaker>द्वितीयः -</speaker> एवमेतद्,
<verse>अग्निरग्निभयादेष भीतैर्निर्वास्यते द्विजैः ।
कुले व्युत्क्रान्तचारित्रे ज्ञातिर्ज्ञातिभयादिव ॥ ७ ॥
२
</page>