2025-12-29 10:00:42 by ambuda-bot
This page has not been fully proofread.
३७४
पचरात्रे
[ i. 3.—
द्विजोच्छिष्ठैरन्नैः प्रकुसुमितकाशा इव दिशो
हविर्धूमैः सर्वे हृतकुसुमगन्धास्त रुगणाः ।
मृगैस्तुल्या व्याघ्रा वधनिभृतसिंहाश्च गिरयो
नृपे दीक्षां प्राप्ते जगदपि समं दीक्षितमिव ॥ ३॥
द्वितीयः- सम्यग् भवानाह ।
तृप्तोऽग्निविषामरोत्तममुखं तृप्ता द्विजेन्द्रा धनै-
स्तृप्ताः पक्षिगणाश्च गोगणयुतास्ते ते नराः सर्वशः ।
हृष्टं सम्प्रति सर्वतो जगदिदं गर्जन्नृपे सद्गुणै-
रेवं लोकमुदारुरोह सकलं देवालयं तद्गुणैः ॥ ४ ॥
तृतीयः - इमेऽभवन्तो द्विजातयः,
राज्ञां वेष्टनपट्टघृष्टचरणाः श्लाघ्यप्रभूतश्रवा
वार्द्धक्येऽप्यभिवर्धमाननियमाः स्वाध्यायशूरैर्मुखैः ।
विप्रा यान्ति वयःप्रकर्षशिथिला यष्टित्रिपादक्रमाः
शिष्यस्कन्ध निवेशिताचितकरा जीर्णा गजेन्द्रा इव ॥ ५ ॥
सर्वे - भो भो माणवकाः भो भो माणवकाः ! अनवसितेऽव-
भृथस्नाने न खलु तावदग्निरुत्स्रव्यो भवद्भिः ।
प्रथमः- हा धिग्, दर्शितमेव तावद् वटुचापलम् ।
एषा दीसैकयूपा कनकमयभुजेवाभाति वसुधा
चैत्याभिलौकिकानं द्विज इव वृषलं पार्श्वे न सहते ।
नात्यर्थं पृष्टपृष्ठा हरितकुशतया वेदी परिवृता
प्राग्वंशं चैष धूमो गज इव नलिनी फुल्लां प्रविशति ॥ ६॥
द्वितीयः - एवमेतद्,
अग्निरग्निभयादेष भीतैर्निर्वास्यते द्विजैः ।
कुले व्युत्क्रान्तचारित्रे ज्ञातिर्ज्ञातिभयादिव ॥ ७ ॥
२