2026-01-27 04:30:34 by akprasad
This page has been fully proofread once and needs a second look.
सूत्रधारः-
<subtitle>॥
<subtitle>भासनाटकचक्रे
<title>पञ्चरात्रम्
<p><stage>( नान्द्यन्ते ततः प्रविशति सूत्रधारः । )
<verse><speaker>सूत्रधारः-</speaker>
द्रोणः पृथिव्यर्जुनभीमदूतो
यः कर्णधारः शकुनीश्वरस्य ।
दुर्योधनो भीष्मयुधिष्ठिरः स
पायाद् विराडुत्तरगोऽभिमन्युः ॥ १ ॥
<p><stage>( परिक्रम्य )</stage> एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि
विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
<p><stage>( नेपथ्ये )
<p>अहो कुरुराजस्य यज्ञसमृद्धिः ।
<p><speaker>सूत्रधारः -</speaker> भवतु, विज्ञातम् ।
<verse>सर्वैरन्तःपुरैः सार्धं प्रीत्या प्राप्तेषु राजसु ।
यज्ञो दुर्योधनस्यैष कुरुराजस्य वर्तते ॥ २ ॥
<p><stage>( निष्क्रान्तः । )
<trailer>स्थापना ।
<p><stage>( ततः प्रविशन्ति ब्राह्मणास्त्रयः । )
<p><speaker>सर्वे -</speaker> अहो ! कुरुराजस्य यज्ञसमृद्धिः ।
<p><speaker>प्रथमः-</speaker> इह हि,
१
</page>