2025-12-29 10:00:40 by ambuda-bot
This page has not been fully proofread.
३
सूत्रधारः-
॥ eft: ॥
भासनाटकचक्रे
पञ्चरात्रम्
( नान्द्यन्ते ततः प्रविशति सूत्रधारः । )
द्रोणः पृथिव्यर्जुनभीमदूतो
यः कर्णधारः शकुनीश्वरस्य ।
दुर्योधनो भीष्मयुधिष्ठिरः स
पायाद् विराडुत्तरगोऽभिमन्युः ॥ १ ॥
( परिक्रम्य ) एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि
विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
( नेपथ्ये )
अहो कुरुराजस्य यज्ञसमृद्धिः ।
सूत्रधारः - भवतु, विज्ञातम् ।
सर्वैरन्तःपुरैः सार्धं प्रीत्या प्राप्तेषु राजसु ।
यज्ञो दुर्योधनस्यैष कुरुराजस्य वर्तते ॥ २ ॥
( निष्क्रान्तः । )
स्थापना ।
( ततः प्रविशन्ति ब्राह्मणास्त्रयः । )
सर्वे - अहो ! कुरुराजस्य यज्ञसमृद्धिः ।
प्रथमः- इह हि,
१