This page has been fully proofread once and needs a second look.

<page>
<heading>
अथ षष्ठोऽङ्कः ।

</heading>

<stage>
( ततः प्रविशन्ति विद्याधरास्त्रयः । )

</stage>

<speaker>
सर्वे -</speaker> एते स्मो भो ! एते स्मः ।

<speaker>
प्रथमः-

</speaker>
इक्ष्वाकुवंशविपुलोज्ज्वलदीप्तकेतोः

<speaker>
द्वितीय:-

</speaker>
रामस्य रावणवधाय कृतोद्यमस्य ।

<speaker>
तृतीयः-

</speaker>
सङ्ग्रामदर्शनकुतूहलबद्धचित्ताः

<speaker>
सर्वे-

</speaker>
प्राप्ता वयं हिमवतः शिखरात् प्रतूर्णम् ॥ १ ॥

<speaker>
प्रथमः-

प्राप्ता वयं हिमवतः शिखरात् प्रतूर्णम् ॥ १ ॥

</speaker> चित्ररथ ! एते देवदेवर्षिसिद्धविद्याधरादयो निरन्तरं नभः

कृत्वा स्थिताः । तस्माद् वयमप्येतेषामेतान् गणान् परिहरन्तः

स्वैरमेकान्ते स्थित्वा रामरावणयोर्युद्धविशेषं पश्यामः ।

<speaker>
उभौ-</speaker>बाढम् ।

<stage>
( तथा कृत्वा )

</stage>

<speaker>
प्रथमः-

</speaker> अहो प्रतिभयदर्शनीया खल्वियं युद्धभूमिः । इह हि,

<verse n="6.2">
रजनिचरशरीरनीरकीर्णा कपिवरवीचियुता वरासिनका ।
क्रा ।
उदधिरिव विभाति युद्धभूमी रघुवरचन्द्रशरांशुवृद्धवेगा ॥ २ ॥
</verse>

<speaker>
द्वितीयः-</speaker> एवमेतत् ।

अ. २०

<verse>
एते पादपशैलभग्नशिरसो मुष्टिप्रहारैर्हताः

क्रुद्धैर्वानरयूथपैरतिबलैरुत्पुच्छकर्णैर्वृताः ।

कण्ठग्राह विवृत्ततुङ्गनयनैर्दष्टोष्ठतीत्व्रैर्मुखैः

शैला वज्रहता इवाशु समरे रक्षोगणाः पातिताः ॥ ३ ॥

४१

</verse>
</page>