2025-12-29 10:00:39 by ambuda-bot
This page has not been fully proofread.
अथ षष्ठोऽङ्कः ।
( ततः प्रविशन्ति विद्याधरास्त्रयः । )
३ सर्वे - एते स्मो भो ! एते स्मः ।
प्रथमः-
इक्ष्वाकुवंशविपुलोज्ज्वलदीप्तकेतोः
द्वितीय:-
रामस्य रावणवधाय कृतोद्यमस्य ।
तृतीयः-
सङ्ग्रामदर्शनकुतूहलबद्धचित्ताः
सर्वे-
प्रथमः-
प्राप्ता वयं हिमवतः शिखरात् प्रतूर्णम् ॥ १ ॥
: - चित्ररथ ! एते देवदेवर्षिसिद्धविद्याधरादयो निरन्तरं नभः
कृत्वा स्थिताः । तस्माद् वयमप्येतेषामेतान् गणान् परिहरन्तः
३ स्वैरमेकान्ते स्थित्वा रामरावणयोर्युद्धविशेषं पश्यामः ।
उभौ-बाढम् ।
( तथा कृत्वा )
६ प्रथमः-
:- अहो प्रतिभयदर्शनीया खल्वियं युद्धभूमिः । इह हि,
रजनिचरशरीरनीरकीर्णा कपिवरवीचियुता वरासिनका ।
उदधिरिव विभाति युद्धभूमी रघुवरचन्द्रशरांशुवृद्धवेगा ॥ २ ॥
द्वितीयः- एवमेतत् ।
अ. २०
एते पादपशैलभग्नशिरसो मुष्टिप्रहारैर्हताः
क्रुद्धैर्वानरयूथपैरतिबलैरुत्पुच्छकर्णैर्वृताः ।
कण्ठग्राह विवृत्ततुङ्गनयनैर्दष्टष्ठतीत्रैर्मुखैः
शैला वज्रहता इवाशु समरे रक्षोगणाः पातिताः ॥ ३ ॥
४१