This page has been fully proofread once and needs a second look.

<page>
<ignore>
―v. 10.³]

</ignore>
<ignore>

पचमोऽङ्कः ।

</ignore>
<ignore>
३५७

</ignore>

<speaker>
सीता -</speaker> हं मूढो खुसि रावणओ, जो मन्दरं हत्थेण तुळयिदुकामो ।

<chaya>
[ हं मूढः खल्वसि रावणकः, यो मन्दरं हस्तेन तुलयितुकामः । ]
</chaya>

<stage>
( प्रविश्य )

</stage>

<speaker>
राक्षसः -</speaker> जयतु महाराजः ।

<verse>
एते तयोर्मानुषयोः शिरसी राजपुत्रयोः ।

युधि हत्वा कुमारेण गृहीते त्वत्प्रियार्थिना ॥ ८ ॥
</verse>

<speaker>
रावणः -</speaker> सीते ! पश्य पश्य तयोर्मानुषयोः शिरसी ।

<speaker>
सीता -</speaker> हा अय्यउत्त ! । <stage>( इति मूर्च्छिता पतति । ) </stage> <chaya>[ हा आर्यपुत्र ! । ]

</chaya>

<speaker>
रावणः-

</speaker>

<verse>
सीते ! भावं परित्यज्य मानुषेऽस्मिन् गतायुषि ।

अद्यैव त्वं विशालाक्षि ! महतीं श्रियमाप्नुहि ॥ ९ ॥

</verse>

<speaker>
सीता - </speaker> <stage>( प्रत्यभिज्ञाय )</stage> हा अय्यउत्त ! परिमळणवकमळस ण्णिहे

वदणे परिवृत्तणअणे पेक्खन्ती अदिधीरा खु म्हि मन्दभाआ । हा

अय्यउत्त ! एस्सिसिं दुःखसाअरे मं णिक्खिविअ कहिं गोगदो सि ।

जाव ण मरामि । किंणुखु अळिअं एदं भवे । भद्द ! जेण असिणा

अय्यउत्तस्स असदिसं किदं, तेण मं वि मारेहि । <chaya>[ हा आर्यपुत्र !

परिमलनवकमलसन्निभे वदने परिवृत्तनयने पश्यन्ती अतिधीरा खल्वस्मि

मन्दभागा । हा आर्यपुत्र ! एतस्मिन् दुःखसागरे मां निक्षिप्य कुत्र

गतोऽसि । यावन्न म्रिये । किन्नुखल्वलीकमेतद् भवेत् । भद्र ! येना-

सिनार्यपुत्रस्यासदृशं कृतं तेन मामपि मारय । ]

</chaya>

<speaker>
रावणः-

</speaker>

<verse>
व्यक्तमिन्द्रजिता युद्धे हते तस्मिन् नराधमे ।

लक्ष्मणेन सह भ्रात्रा केन त्वं मोक्षयिष्यसे ॥ १० ॥
</verse>

<stage>
(नेपथ्ये )

</stage>

रामेण रामेण ।

<ignore>
३७

</ignore>
</page>